________________
७८
संमतितर्कप्रकरणे, काण्ड -१, गाथा - ४१
अत्रैवं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः [सम्मतौ ]
“ एवं सत्तवियप्पो वयणपहो होइ अत्थपज्जाए । वंजणपज्जा पुण, सवियप्पो णिव्वियप्पो य ।। १/४१ ।।”
अस्यार्थः एवमनन्तरोक्तप्रकारेण सप्तविकल्पः सप्तभेदः, वचनपथो भवत्यर्थपर्यायेऽर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे, सप्ताप्यनन्तरोक्ता भङ्गका भवन्ति । तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यग्राहिणी, नास्तीत्ययं तु व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सङ्ग्रहव्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रहव्यवहारर्जुसूत्रेष्विति विभागः । ।
अत्र यद्धर्मप्रकारकः सङ्ग्रहाख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतस्तद्धर्माभावप्रकारको व्यवहाराख्यबोध द्वितीयभङ्गफलत्वेनैष्टव्यः तेन स्याद् घटः स्यान्नीलघट इत्यादिसामान्यविशेषसङ्ग्रहव्यवहाराभ्यां न सप्तभङ्गीप्रवृत्तिरित्यवधेयम् ।।
अथ तृतीयभङ्गस्य ऋजुसूत्रनिमित्ततायां किं बीजं युगपत्सत्त्वासत्त्वाभ्यामादिष्टं हि सङ्ग्रहव्यवहारावप्यवक्तव्यमेव ब्रूतः, सङ्ग्रहव्यवहारौ युगपदुभयथाऽऽदिशत एव, नेति चेत्, ऋजुसूत्रोऽपि कथं तथाऽऽदिष्टुं प्रगल्भताम्, मध्यमक्षणरूपायाः सत्तायास्तेनाप्यभ्युपगमात् । सङ्ग्रहाभिमतयावत्सजातीयविशेषानुवृत्तसामान्यानभ्युपगमादृजुसूत्रेणावक्तव्यत्वभङ्ग उत्थाप्यत इति चेत्, सोऽयं प्रत्येकावक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोपि समर्थः, ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युगन्त्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेत्,
अत्रेदमाभाति–सङ्ग्रहव्यवहारौ युगपन्नोभयथादेष्टुं प्रगल्भेते, स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात्, ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तिर्यगूर्ध्वतास्पदाधारांशान्यतररूपसामान्यान्यापोहरूपविशेषौ च सांवृतावेवेति तदपेक्षया युगपदुभयथाऽऽहार्यतदादेशसम्भवादवक्तव्यभङ्गोत्थानमनाबाधम्, न चैवमपि तज्जनितबोधस्य प्रसङ्गरूपत्वाद्विपर्ययपर्यवसने सङ्ग्रहव्यवहारान्यतरसाम्राज्यमिति वाच्यम्, विषयाबाधे कूटलिङ्गजानुमितेरिव प्रकृतभङ्गजबोधस्य प्रमात्वेन विपर्ययपर्यवसानकदर्थनानवकाशाद् । अधिकं बहुश्रुता विदन्ति ।
व्यञ्जनपर्याये शब्दनये पुनः सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावेऽप्यर्थस्यैकत्वात्, द्वितीयतृतीययोर्निर्विकल्पकष्टा, द्रव्यार्थात्सामान्यलक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात्तयोः, समभिरूढस्य पर्यायभेदभिन्नार्थत्वात् एवम्भूतस्यापि विवक्षितक्रियाकालार्थत्वात्,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org