________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४१
तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, समभिरूदैवम्भूतयोस्त्येिवेति द्वौ भनौ लभ्येते, लिङ्गसंज्ञाक्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः, प्रथमद्वितीयसंयोगे चतुर्थः, तेष्वेव चानभिधेयसंयोगे पञ्चमषष्ठसप्तमा वचनमार्गा भवन्ति । अथवाऽन्यथास्याः व्याख्यातात्पर्यम्, अर्थनय एव सप्त भङ्गाः ।
-: नयोपदेशे :
गाथा-६ अत्र सप्तभङ्ग्यामित्थं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः [सम्मतौ] -
“एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए ।
वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो अ।। १/४१ ।।" एवम् अनन्तरोक्तप्रकारेण, सप्तविकल्पः सप्तभेदः, वचनपथो भवति, अर्थपर्याये अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे, तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यग्राहिणि द्वितीयस्तु 'नास्ति' इत्ययं व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सङ्ग्रह-व्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्नुसूत्रयोः, सप्तमः सङ्ग्रह-व्यवहारर्नुसूत्रेष्विति । प्रयोगष्टौतेप्टातुर्थ-तृतीययोर्व्यत्ययेनेष्यत इति न तृतीये ऋजुसूत्रयोजनानुपपत्तिः । अत्र यद्धर्मप्रकारकः सङ्ग्रहाख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतस्तद्धर्माऽभावप्रकारको व्यवहाराख्यो बोध एव द्वितीयभङ्गफलत्वेनैष्टव्यः, तेन ‘स्याद् घटः' 'स्यानीलघटः' इत्यादि सामान्य-विशेषसङ्ग्रह-व्यवहाराभ्यां न सप्तभङ्गीप्रवृत्तिः, नवैकवचनबहुवचनादिना भङ्गान्तरवृद्धिरित्यवधेयम् । __ अथ तृतीयभङ्गस्यर्जुसूत्रनिमित्तकतायां किं वीजम् ? युगपत्सत्त्वाऽसत्त्वाभ्यामादिष्टं हि सङ्ग्रहव्यवहारावप्यवक्तव्यमेव ब्रूतः, सङ्ग्रह-व्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेद् ? ऋजुसूत्रोऽपि कथं तथाऽऽदेष्टुं प्रगल्भताम् ? मध्यमक्षणरूपायाः सत्तायास्तेनाप्युपगमात्, सङ्ग्रहाभिमतयावद्व्यक्त्यनुवृत्तसामान्यानभ्युपगमादृजुसूत्रेणाऽवक्तव्यत्वभङ्गो न स्थाप्यत इति चेत् ? सोऽयं प्रत्येकावक्त-व्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोऽपि समर्थः ऋजुसूत्राभिमतमध्यमक्षणरूप-सत्तानभ्युपगन्त्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेत् ?
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org