________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४१
अत्रेदमाभाति-सङ्ग्रह-व्यवहारौ युगपत्रोभयथाऽऽदेष्टुं प्रगल्भेते स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात्, ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तिर्यगूलताधारांशान्यतररूपं सामान्यम् अन्यापोहरूपो विशेषष्टोति द्वावपि संवृतावेवेति तदपेक्षया युगपदुभयथाहार्यतदादेशसम्भवादवक्तव्यभङ्गोत्थानमनाबाधम् । न चैवमपि तज्जनितबोधस्य प्रसङ्गरूपत्वाद् विपर्ययपर्यवसाने सङ्ग्रह-व्यवहारान्यतरसाम्राज्यमिति वाच्यम्, विषयाबाधे कूटलिङ्गजानुमितिरिव प्रकृतभङ्गजबोधस्य प्रमात्वेन विपर्ययपर्यवसानकदर्थनानवकाशात् ।
व्यञ्जनपर्याये शब्दनये पुनः सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावादर्थस्यैकत्वाञ्च, द्वितीय-तृतीययोनिर्विकल्पष्टा द्रव्यार्थात् सामान्यलक्षणानिर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात् तयोः, तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, समभिरूद्वैवंभूतयोस्त्येिवेति द्वौ भङ्गो लभ्येते । लिङ्ग-संज्ञा-क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः । प्रथम-द्वितीय-संयोगे चतुर्थः, तेष्वेव चानभिधेयसंयोगे पञ्चम-षष्ठ-सप्तमवचनमार्गाः सम्भवन्ति । अथवा शब्दनये पर्यायान्तरसहिष्णौ सविकल्पो वचनमार्गः, तदसहिष्णौ तु निर्विकल्प इति द्वावेव भङ्गो अवक्तव्यभङ्गस्तु व्यञ्जननये न सम्भवत्येव, श्रोतरि शब्दोपरक्तार्थबोधनस्यैव तत्प्रयोजनत्वात्, अवक्तव्यबोधनस्य च तन्नये सम्प्रदायविरुद्धत्वेन तथाबुबोधयिषाया एवासम्भवादित्यधिकमस्मत्कृतानेकान्तव्यवस्थायाम् ।
तदेवं प्रतिपर्यायं सप्तप्रकारबोधजनकतापर्याप्तिमद् वाक्यं प्रमाणवाक्यमिति लक्षणं सिद्धम् । इत्थञ्च तदन्तर्भूतस्य तष्टहिभूतस्य वाऽन्यतरभङ्गस्य प्रदेश-परमाणुदृष्टान्तेन नयवाक्यत्वमेवेत्यर्थतो लभ्यते । इतरप्रतिक्षेपी तु नयो नयाभासो दुर्नयो वेत्युच्यते ।
मलयगिरिचरणास्तु- “नयो दुर्नयः सुनयटोति दिगम्बरी व्यवस्था, न त्वस्माकं नयदुर्नययोराऽविशेषात्, स्याच्छब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृत्त्याऽभेदोपचाराद् वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थितेः, अत एव स्याच्छब्दलाञ्छिततयैव सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणी भाषा च निषिद्धा, तस्या नयरूपत्वात्, नयानां च सर्वेषां मिथ्यादृष्टित्वात्, तथा चानुस्मरन्ति- “सव्वे णया मिच्छावायिणो” [ ] त्ति, न च, सप्तभङ्गात्मकं प्रमाणवाक्यम्, एकभङ्गात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यम्, सप्त भङ्गाः सप्तविधजिज्ञासोपाधिनिमित्तत्वात्, न च तासां सार्वत्रिकत्वम्, को जीवः ? इति प्रो लक्षणमात्रजिज्ञासया 'स्याज्ज्ञानादिलक्षणो जीवः' इति प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात्, स्यात्पदस्य चात्राऽनन्तधर्मात्मकत्वद्योतकत्वेन प्रामाण्याङ्गत्वम्, द्योतकत्वं चात्रौपसम्पदानकी शक्तिर्लक्षणा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org