________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ४१
वेत्यन्यदेतत्, तत्र च श्रुतपदप्रतिपाद्यधर्मांशे लौकिकी विषयता स्यात्पदद्योत्या, अनन्तधर्मात्मकत्वांशे च लोकोत्तरेति विशेषः” इत्यभिसन्दधते, तन्मतमनुरूध्य प्रमाणलक्षणान्तरं समुच्चिनोति - च- पुनः, यद् वाक्यम्, एकधर्मगं प्रतिनियतैकधर्मप्रतिपिपादयिषया प्रयुक्तम्, [ अपरोल्लेखि] स्यात्पदादपरे येऽनन्ता धर्मास्तांल्लिखतीत्येवंशीलं वाक्यम्, तदपि प्रमाणवाक्यं व्यवर्तव्यमित्यर्थः ।
अयं स समुच्चयो मयापि सम्प्रदायमतमिति कृत्वा समुन्नीतः, वस्तुतो नयदुर्नयविभागो न दैगम्बर एव, हेमसूरिभिरपि “सदेव सत् स्यात् सदिति त्रिधार्थो मीयेत दुर्नीति-नय-प्रमाणैः” [अन्ययोगव्य० लो. २८] इत्यादि विभज्याभिधानात् आकरे नयतदाभासानां व्यक्तेर्बोधितत्वाच्च । अवधारणी च भाषा एकान्तवादात्मकैव निषिद्धा, न तु नयरूपाऽपि, तस्याः प्रमाणपरिकरत्वेन तत्रावधारणीत्वस्य निष्टायकत्वरूपभाषालक्षणान्वयेनैव सिद्धान्तसिद्धत्वात्, अत एव निराकाङ्क्षाऽनासन्नादिस्थले शब्दसमानाकारमानसस्वीकारे किमपराद्धं शाब्दबोधेनेति पर्यनुयोगे मानसस्य संशयाऽऽकारस्यापि सम्भवाद् निष्टायकरूपशाब्दबोधानुपपत्तेरेव योक्तिकैर्निराकृतः । न च, भाषामात्रस्यावधारणीत्वेऽप्याराधकत्व-विराधकत्व-तदुभया-ऽनुभयैः सत्यादिभेदचतुष्टयोपदेशान्नयभाषाया देशाराधकत्वेन तृतीयभङ्ग एव निक्षेपात् साधूनामनादरणीयत्वमित्यपि युक्तम्, चतुर्धा विभागस्य द्रव्य-भावभाषायामेवोपदेशात्, तत्र च परिभणितमिश्रभाषाभेददशकानन्तर्भावादेव नयभाषायां दोषाभावात्, श्रुतभावभाषायाष्टा तृतीयभाषायामेवानधिकृतत्वात्, चारित्रभावभाषायामाद्यन्तयोर्भाषयोरधिकृतत्वेऽप्यायुक्ततया चतसृणामपि भाषणे आराधकत्वाविरोधस्य प्रज्ञापनादावुक्तत्वात् ।
किञ्च, प्रतीत्यसत्यालक्षणमत्र स्फुटमेव किं नोन्नीयते ? न च सप्तभङ्गात्मक वाक्यस्यैव प्रतीत्यसत्यात्वम्, अपेक्षात्मकबोधजनकवाक्यत्वस्यैव तल्लक्षणत्वात्, अन्यथैकत्रापेक्षया हस्व-दीर्घादि लौकिकवचनस्यालक्ष्यत्वापत्तेः । न च सत्या सर्वत्राऽलौकिक्येव लक्ष्या, जनपदसत्यादिभेदानुपसङ्ग्रहापत्तेः ।
-: अनेकान्तव्यवस्थायां :
शब्दादित्रयनयस्वरूपवर्णने, पत्र - ५७
अत्रेदमाभाति यद्यपि सम्मती
“ एवं सत्तविअप्पो, वयणपहो होइ अत्थपज्जाए ।
वंजणपज्जाए पुण, सवियप्पो णिव्वियप्पो य ।। १-४१ ।।” त्ति ।
Jain Education International 2010_02
८१
For Private & Personal Use Only
www.jainelibrary.org