________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१०
स्यादिति चेत् ? न स्यादेव, पर्यायनयविचारानवतारदशायामेव तस्य शुद्धत्वव्यवस्थितेः, तदवतारे तु पूर्वप्रवृत्तद्रव्यार्थिकाप्रामाण्यनिष्टायेन तदर्थाभावस्यैव निष्टायात् ।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायाम्, स्तबक ७, गाथा-१० अत एव द्रव्यास्तिकादेः प्रत्येकमित्थंरूपतया सत्त्वम्, अनित्थंरूपतया चाऽसत्त्वं परिभाषितम् [सम्मतौ]
“दव्वट्ठिउ त्ति तम्हा णत्थि णओ णियम सुद्धजातीओ ।
न य पज्जवढिओ णाम कोइ भयणाइ'उ विसेसो ।। १/९ ।।" इति । [अने ?]न हि विषयभेदकृतोऽनयोर्भेदः, द्वयात्मकस्यैव प्रातिस्विकरूपेण द्वाभ्यां ग्रहात्, किन्तु भजनया विवक्षाभेदकृतप्रतिभासभेदादित्युत्तरार्धतात्पर्यम् ।
_ [ विवक्षाकृतस्य नयद्वयविषयविवेकस्य विशदीकरणम् ] एवंरूपभजनाकृतमेव भेदं दर्शयितुमाह
दव्वट्ठियवत्तव्वं अवत्थु णियमेण पज्जवणयस्स ।
तह पज्जववत्थु अवत्थुमेव दबट्ठियनयस्स ।।१०।। पर्यायास्तिकस्य द्रव्यास्तिकाभिधेयमस्तित्वम् अवस्त्वेव भेदरूपापन्नत्वात् द्रव्यास्तिकस्यापि पर्यायास्तिकाभ्युपगता भेदा अवस्तुरूपा एव भवन्ति, सत्तारूपापन्नत्वात् । अतो भजनामन्तरेणैकत्र सत्तायाः अपरत्र च भेदानां नष्टत्वाद् ‘इदं द्रव्यम् एते च पर्यायाः' इति नास्ति भेदः । न च प्रतिभासमानयोर्द्रव्य-पर्याययोः कथं पर्यायास्तिक-द्रव्यास्तिकाभ्यां प्रतिक्षेपः इति वक्तव्यम्, यतः प्रतिभासोऽप्रतिभासस्य बाधको न तु मिथ्यात्वस्य; मिथ्यारूपस्यापि प्रतिभासनात । तथाहि पर्यायास्तिकः प्राह-न मया द्रव्यप्रतिभासो निषिध्यते-तस्यानुभूयमानत्वात्-किन्तु विशेषव्यतिरेकेण द्रव्यस्याप्रतिभासनाद् अव्यतिरेके तु व्यक्तिस्वरूपवत् तस्यानन्वयाद् उभयरूपतायाप्टौकत्र विरोधात् गत्यन्तराभावात् द्रव्यप्रतिभासस्तत्र मिथ्यैव । विशेषप्रतिभासस्त्वन्यथा, बाधकाभावात् यतः प्रतिक्षणं वस्तुनो निवृत्ते शोत्पादौ पर्यायलक्षणं न स्थितिः । द्रव्यार्थिकस्तु भजनोत्थापितस्वरूपः प्राह-अस्माकमप्ययमेवा
1-भयणाय (संमति.) । 2-होइ पज्जाए (अने.व्य., नयो., स्या. कल्प.)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org