________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-९
भावेन विषयिणोऽप्यभावात् । यदि विषयाभावाद् इमौ नयौ न स्तः यदुक्तम् 'तीर्थकरवचनसङ्ग्रह'-इत्यादि तद् विरुध्यत इत्याह-भयणाय उ विसेसो भजनायास्तु विवक्षाया एव विशेषः-'इदं द्रव्यम् अयं पर्यायः' इत्ययं भेदः तथा तद्भेदाद् विषयिणोऽपि तथैव भेद इत्यभिप्रायः । भजना च-सामान्यविशेषात्मके वस्तुतत्त्वे उपसर्जनीकृतविशेषं यद् अन्वयिरूपं तद् ‘द्रव्यम्' इति विवक्ष्यते यदा तदा द्रव्यार्थिकविषयः, तदा तूपसर्जनीकृतान्वयिरूपं तस्यैव वस्तुनो यद् असाधारणं रूपं तद् विवक्ष्यते तदा पर्यायनयविषयस्तद् भवतीति ।।९।। [S.T.P.408]
-: अनेकान्तव्यवस्थायां :
व्यवहारनयस्वरूपवर्णने, पत्र-२८ - अत एव द्रव्यपर्यायविषयताभ्यां तदितराविषयतया वा न शुद्धजातीयद्रव्यार्थिकपर्यायार्थिकभावव्यवस्था, किन्तूपसर्जनीकृतान्यार्थ-प्रधानकृतस्वार्थविषयतयानेकान्तानुप्रवेशादेव । तदुक्तं [सम्मतौ] -
“दव्वट्ठिओत्ति तम्हा, णत्थि णओ णियम सुद्धजाईओ । .
ण य पज्जवडिओ णाम, कोइ भयणाइ'उ विसेसो ।। १/९ ।।" भजना उपसर्जनप्रधानभावावगाहना । ।
-: नयोपदेशे :
गाथा-१५ अत एव द्रव्य-पर्यायविषयतया तदितराविषयतया वा न शुद्धजातीयद्रव्यार्थिकव्यवस्था, किन्तूपसर्जनीकृतान्यार्थ-प्रधानीकृतस्वार्थविषयतया, तदुक्तम् [सम्मतौ] -
“दव्वढिओ त्ति तम्हा णत्थि णयो नियम सुद्धजाईओ ।
ण य पज्जवट्ठिओ णाम कोइ भयणाय उ विसेसो " ।। १/९ ।। त्ति भजना- उपसर्जन-प्रधानभावावगाहना । आह-सामान्यसङ्ग्रहेऽपि शुद्धद्रव्यार्थेकान्तिको न
1-भयणाय (संमति.)
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org