________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ९
न विद्यते पष्टिामे विकल्प - निर्वचने सविकल्पधीर्व्यवहारलक्षणो यत्र स तथा सङ्ग्रहावसान इ यावत्, ततः परं विकल्प - वचनाप्रवृत्तेः, ईदृशो यावद् द्रव्योपयोगो प्रर्वतते तावद् द्रव्यार्थिकस्य वचनीयं वस्तु, तच्च पर्यायनयेन वि विशेषण, उत् ऊर्ध्वम्, क्रान्तमेव विषयीकृतमेव पर्यायानाक्रान्तसत्तायां मानाभावादित्येकोऽर्थः ।
३०
यद्वा यद् वस्तु सूक्ष्मतर - सूक्ष्मतमादिबुद्धिना पर्यायनयेन स्थूलरूपं त्यजता ( उत्तरत्र सूक्ष्मरूपाश्रयणात्) व्युत्क्रान्तं गृहीत्वा मुक्तम्, यथा 'किमिदं मृत्सामान्यं यत् घटादिविशेषानुपरक्तता विषयीभवेद्' इत्येवमाकारेण यावच्छुक्लरूपतमोऽन्त्यो विशेषस्तावत् तत् सर्वं द्रव्यार्थिकस्य वचनीयता, यावदपष्टिमविकल्पनिर्वचनो योऽन्त्यः विशेषस्तावद् द्रव्योपयोगः प्रवर्तत इति द्वितीयोऽर्थः । । -: ज्ञानबिन्दु: :"पजवणयवुक्तं वत्युं दव्वट्टियस्स वत्तव्यं ।
}
जव दविओवओगो अपच्छिमवियप्प-निव्वयणो ।।" [ सम्मतौ - १ / ८ ] इति ।
पर्यायनयेन व्युत्क्रान्तं गृहीत्वा विचारेण मुक्तं वस्तु द्रव्यार्थिकस्य वक्तव्यम् । यथा 'घटो द्रव्यम्' इत्यत्र घटत्वविशिष्टस्य परिच्छिन्नस्य द्रव्यत्वविशिष्टेनाऽपरिच्छिन्नेन सह भेदान्वयाऽसम्भव इति मृदेव द्रव्यमिति द्रव्यार्थिकप्रवृत्तिस्तत्रापि सूक्ष्मेक्षिकायामपरापरद्रव्यार्थिकप्रवृत्तिः यावद्द्रव्योपयोगः । न विद्येते पष्टिमे उत्तरे विकल्पनिर्वचने सविकल्पकधीव्यवहारौ यत्र स तथा, शुद्धसङ्ग्रहावसान इति यावत् । ततः परं विकल्पवचनाऽप्रवृत्तेः इत्येतस्याः अर्थः ।
[ वस्तुगत्या द्वयात्मक एव तत्त्वे नयद्वयविषयविवेकस्य विवक्षाधीनत्वाभिधानम् ] तदेवं न सत्ता विशेषविरहिणी, नापि विशेषाः सत्ताविकला इति प्रदर्योपसंहरन्नाहदव्वट्टिट्ठओ त्ति तम्हा नत्थि णओ नियम सुद्धजाईओ । ण य पज्जवट्टिओ णाम कोइ भयणाय' उ विसेस ।।९।।
तस्माद् द्रव्यार्थिकः इति नयः शुद्धजातीयो विशेषविनिर्मुक्तो नास्ति नियमेन इत्यवधारणार्थः, विषयाभावेन विषयिणोऽप्यभावात् । न च पर्यायार्थिकोऽपि कटिशन्नयः 'नाम' इति प्रसिद्धार्थः-नियमेन शुद्धस्वरूपः सम्भवति, सामान्यविकलात्यन्तव्यावृत्तविशेषविषया
1- वयणिज्जं (संमति.) 2 - भयणाइ (अने.व्य., स्या. कल्प.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org