SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड - १, गाथा-८ यद्वा यद् वस्तु सूक्ष्मतरतमादिबुद्धिना पर्यायनयेन स्थूलरूपत्यागेनोत्तरोत्तरसूक्ष्मरूपाश्रयणाद् व्युत्क्रान्तम् गृहीत्वा त्यक्तम्, यथा किमिदं मृत्सामान्यं घटादिभिर्विना प्रतिपत्तिविषयो यावत् शुक्लतमरूपस्वरूपोऽन्त्यो विशेषः एतद् द्रव्यार्थिकस्य वस्तु विषयः यतो यावद् अपष्टिमविकल्पनिर्वचनोऽन्त्यो विशेषस्तावद् द्रव्योपयोगः द्रव्यज्ञानं प्रवर्तते; न हि द्रव्यादयो विशेषान्ताः सदादिप्रत्यया विशिष्टैकान्तव्यावृत्तबुद्धिग्राह्यतया प्रतीयन्ते, न च तथाऽप्रतीयमानास्तथाभ्युपगमार्हाः अतिप्रसङ्गात् ।।८।। [S.T.P.408] -: अनेकान्तव्यवस्थायां व्यवहारनयस्वरूपवर्णने, पत्र - २८ ननु सामान्यविशेषात्मके वस्तुनि विशेषं गृह्णता व्यवहारेण सामान्यमपि सम्भृतसामग्र ग्राह्यमेव, सूक्ष्मसूक्ष्मतरपर्यायनयत्यक्तस्यार्थस्य द्रव्यार्थिकविषयत्वात् । तदुक्तं सम्मतीपज्जवणयवुक्कतं वत्युं दव्वद्वियस्स वत्तव्यं । जाव दविओवओगो, अपच्छिमवियप्पनिव्वयणो ।। १-८ । । "त्ति अत्र न विद्येते पष्टिामे विकल्पनिर्वचने सविकल्पकधीव्यवहारलक्षणे यत्र स तथा सङ्ग्रहावसान इति यावत्, ततः परं विकल्पवचनाप्रवृत्तेः, ईदृशो यावद् द्रव्योपयोगः प्रवर्तते तावद् द्रव्यार्थिकस्य वचनीयं वस्तु, तच पर्यायनयेन वि विशेषेण, उदूर्ध्वम्, क्रान्तमेव विषयीकृतमेव पर्यायानाक्रान्तसत्तायां मानाभावादित्येकोऽर्थः । -- यद्वा यद्वस्तु सूक्ष्मसूक्ष्मतरसूक्ष्मतमादिबुद्धिना पर्यायनयेन स्थूलरूपं त्यजता व्युत्क्रान्तं गृहीत्वा मुक्तं किमिदं मृत्सामान्यं यष्टटादिविशेषान्यबुद्धिविषयीभवेदित्येवमाकारेण यावच्छुक्लरूपतमोऽन्त्यो विशेषस्तावत्तत्सर्वं द्रव्यार्थिकस्य वचनीयम् I यतो यावदपष्टिमविकल्पनिर्वचनोऽन्त्यो विशेषस्तावद्द्रव्योपयोगः प्रवर्तत इति द्वितीयोऽर्थः ।। 1- वयणिज्जं [संमति, नयो . ] २९ -: नयोपदेशे : गाथा १५ “पज्ञ्जवणयवुक्कंतं वत्युं दव्वट्ठि अस्स वयणिज्जं । जाव दविओवओगो अपच्छिमविकप्प - णिव्वयणो” ।। [सम्मतौ - १/८ ] त्ति Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy