________________
२८
संमतितर्कप्रकरणे, काण्ड-१, गाथा-८
अथवा “अर्थाभिधानप्रत्ययास्तुल्यनामधेयाः”[ ] इति अर्थ-प्रत्ययोः स्वरूपमभिधाय अभिधानस्य द्रव्यास्तिक-पर्यायास्तिकस्वरूपस्य तदभिधायकस्य वा प्रतिपादनार्थमाहपज्जवणिस्सामण्णं इत्यादि । पर्यायानिष्क्रान्तम्-तद्विकलम्-सामान्यं सङ्ग्रहस्वरूपं यस्मिन् वचने तत् पर्यायनिस्सामान्यं वचनम् । किं पुनस्तत् ? इत्याह-अस्ति इति, तच्च द्रव्यार्थिकस्य स्वरूपम् प्रतिपादकं वा । यद्वा पर्यायः ऋजुसूत्रनयविषयाद् अन्यो द्रव्यत्वादिविशेषः, स एव च निष्टिातं सामान्यं यस्मिंस्तत् पर्यायनिस्सामान्यं वचनम् । द्रव्यत्वादिसामान्यविशेषाभिधायीति यावत् । तञ्च अशुद्धद्रव्यार्थिकसम्बन्धि तत्प्रतिपादकत्वेन तत्स्वरूपत्वेन वा । अवशेषो वचनविधिः वर्णपद्धतिः सप्रतिपक्षः अस्य वचनस्य पर्यायार्थिकनयरूपः तत्प्रतिपादको वा पर्यायसेवनात्; अन्यथा कथमवशेषवचनविधिः स्यात् यदि विशेषं नाश्रयेत् ? ।।७।। [S.T.P.407]
[ द्रव्य-पर्याययोरन्योन्यसम्मिश्रत्वसूचनाय ज्ञानानेकान्तवर्णनम् ] एवं तावद् द्रव्यार्थिक-पर्यायार्थिकभेदेन भेदमनुभवतां नयानां स्वरूपं प्रतिपाद्य अनेकान्तभावभावनयैवैषां सत्यता नान्यथेत्येतत्प्रतिपादनार्थं ज्ञानानेकान्तमेव तावदाह
पज्जवणयवोक्वंतं वत्थु दवट्ठियस्स वयणिज्जं ।
जाव दविओवओगो अपच्छिमवियप्प-निव्वयणो ।।८।। द्रव्यास्तिकस्य वक्तव्यम्-परिच्छेद्यो विषयः, निष्टायकर्तृ वचनं निर्वचनम्, विकल्पष्टा निर्वचनं च विकल्प-निर्वचनम्, न विद्यते पप्टिामं यस्मिन् विकल्पनिर्वचने तत्-तथा-तथाविधं तद यस्य द्रव्योपयोगस्यासौ अपष्टिामविकल्पनिर्वचनः सङ्ग्रहावसान इति यावत ततः परं विकल्प-वचनाऽप्रवृत्तेः । यावद् अपष्टिामविकल्पनिर्वचनो द्रव्योपयोगः प्रवर्त्तते तावद् द्रव्यार्थिकस्य विषयो वस्तु, तञ्च पर्यायाक्रान्तमेव; अन्यथा ज्ञानाऽर्थयोरप्रतिपत्तेरसत्त्वप्रसक्तिः । न हि पर्यायाऽनाक्रान्तसत्तामात्रसद्भावग्राहकं प्रत्यक्षम् अनुमानं वा प्रमाणमस्ति, द्रव्यादिपर्यायाक्रान्तस्यैव सर्वदा सत्तारूपस्य ताभ्यामवगतेः ।
1-वत्तव्वं (अने. व्य., ज्ञानबि.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org