________________
संमतितर्कप्रकरणे, काण्ड -१, गाथा- ७
लम्बित्वाद् द्रव्यास्तिकत्वाद्, 'भावो य पज्जवणयस्स' मप्तं तदर्थाशून्यत्वाद्, तथा संग्रहव्यवहारौ द्वावपि ‘पढमगस्स’त्ति प्रथमनयमतावलम्बिनौ, शेषास्तु-ऋजुसूत्रादयः, इतरस्य द्वितीयस्य मतमालम्बत इति वाक्यशेषः, एतच्चाचार्यसिद्धसेनाभिप्रायेण उच्यते, न सूत्राभिप्रायेण, तथाहि सूत्रेऽभिहितम्“उज्जुसुयस्स एगे अणुवउत्ते [ एगं दव्वं ] आगमंतो एगं दव्वावस्सयं, पुहत्तं नेच्छइ” इत्यतोऽसौ द्रव्यमिच्छन् कथं भावमात्रग्राहिणं पर्यायनयमालम्बते इति गाथार्थः ।।७५।।
[ द्रव्य-पर्याययोरन्योन्यव्याप्तिज्ञप्तये निरपेक्षनयाश्रितवचसामसत्यत्वकथनम् ] एतदपि नयद्वयं शास्त्रस्य परमहृदयम् ' द्रव्यं पर्यायाशून्यम्, पर्यायाष्टा द्रव्याविरहिणः' इत्येवंभूतार्थप्रतिपादनपरम्, नान्यथेत्येतस्यार्थस्य प्रदर्शनार्थमाह
पज्जवणिस्सामण्णं वयणं दव्वट्ठियस्स 'अस्थि'ति । अवसेसो वयणविही पज्जवभयणा सपविक्खो ।।७।।
परस्परनिरपेक्षस्य नयद्वयस्य प्रत्येकमेवं वचनविधिः- द्रव्यास्तिकस्य अननुषक्तविशेषं वचनम् ‘अस्ति’इत्येतावन्मात्रम्, पर्यायास्तिकस्य त्वपरामृष्टसत्तास्वभावं ‘द्रव्यम्' ‘पृथिवी’ ‘घटः’ ‘शुक्लः’ इत्याद्याश्रितपर्यायम् । परस्परनिरपेक्षं चोभयनयवचोऽसदेव, वचनार्था - सत्त्वात् । वचनमसदर्थमिति तदर्थस्याप्यसत्त्वमावेदितं भवतीति समुदायार्थः ।
२७
अवयवार्थस्तु-पर्यायनयेन सह निःसामान्यम् असाधारणं वचनं द्रव्यास्तिकस्य अस्ति इति एतत्, भेदवाद्यभ्युपगतस्य विशेषस्य सत्तारूपतानुप्रवेशात् । एतच्च वचो निर्विषयम्, निर्विशेषत्वात्, वियत्कुसुमाभिधानवत्
“निर्विशेषं हि सामान्यं भवेच्छशविषाणवत्” (श्लो० वा० आकृति० श्लो० १०) इति प्रसाधितत्वान्नाव्याप्तिर्हेतोः । असिद्धिः पराभ्युपगमादेव परिहृता । तन्न एकान्तभावनाप्रवृत्तस्य द्रव्यास्तिकनयस्य परमार्थता । पर्यायास्तिकस्याप्येवंप्रवृत्तस्य न सेति पष्टार्थेन प्रतिपादयति- अवशेष इति शेषः स चोपयुक्तादन्यः वचनविधिः वचनभेदः सत्ताविकलविशेषप्रतिपादकः पर्यायेषु सत्ताव्यतिरिक्तेष्वसत्सु भजनात् सत्ताया आरोपणात् सप्रतिपक्षः इति सतः प्रतिपक्षः - विरोधी असन् भवति । तथाहि पर्यायप्रतिपादको वचनविधिरवस्तुविषयः, निःसामान्यत्वात्, खपुष्पवत् । भावना तु द्रव्यार्थिकवचनविपर्ययेण प्रयोगस्य कार्या ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org