SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ २६ संमतितर्कप्रकरणे, काण्ड-१, गाथा-६ च यथार्थाभिधानं शब्दः [तत्त्वार्थभा० १/३५] । तथा नाम-स्थापना-द्रव्य-भिन्नलिङ्गादिवाच्येटाकरणाद्भावयुक्तवाची शब्दः [ ] इति च लक्षणान्तरम् । तत्र विभागेन द्रव्यद्रव्यार्थवाच्यं पूर्वनयेषूक्तमिष्टं न करोतीति नैगमादिगोचरमनेनापि व्यावर्तितमेव शब्दनयेन । व्यवहारगोचरनामद्रव्यार्थवाच्यमपीष्टं न करोतीत्यधुना व्यावर्तितम् । ऋजुसूत्रस्यार्थपर्यायस्य गोचरं च भिन्नलिङ्गादिवाच्यमिष्टं न करोतीति यथा वचनादि साधु इति मन्यमानः शब्दनयः प्रवर्तते युक्त्या च यथा तस्य मतं शब्दस्य तथा प्रकारान्तं प्रदर्शितम् । तथाचार्यसिद्धसेनाऽप्याह [सम्मतौ] - “नामं ठवणा दविए त्ति एस दवट्ठियस्स णिक्खेवो । भावो उ पज्जवट्ठियपरूवणा एस परमत्थो ।।" [१/६] त्ति । -: विशेषावश्यकभाष्ये : स्वोपज्ञटीकायाम्, गाथा. ७५ णामाइतियं दव्वट्ठियस्स भावो य पज्जवणयस्स । संगहववहारा पढमगस्स सेसा य इतरस्स ।।७५ ।। णामादिति० गाहा । अत्र च नाम-स्थापना-द्रव्यनिक्षेपत्रयं द्रव्यास्तिकस्यैवाभिमतम, न पर्यायास्तिकस्य, तदर्थशून्यत्वात् । पर्यायास्तिकस्य तु भाव एव । द्रव्यास्तिकनयावलम्बिनौ संग्रहव्यवहारौ, ऋजुसूत्रादयस्तु पर्यायनयमतानुसारिण आचार्यसिद्धसेनाभिप्रायात्; अन्यथा हि सूत्रेऽभिहितम्“उज्जुसुतस्स एगे अणुवयुत्ते आगमतो एगं दव्वावस्सयं, पुधत्तं णेच्छति' (अनु० १४) इति, अतस्स द्रव्यमिच्छन् कथं भावमात्रग्राहिणं पर्यायनयमालम्बति ? ।।७५ ।। - विशेषावश्यकभाष्ये : पू. कोट्याचार्यकृतटीकायाम्, गाथा. ७५ इदानीमयं नामादिक्षेपः सामान्यतो विशेषतष्टा नयैः परिमृग्यते इति, अत आह नामाइतियं दव्वट्ठियस्स भावो य पज्जवनयस्स । संगहववहारा पढमगस्स सेसा य इयरस्स ।।७५।। 'नामाइ' इत्यादि, तत्र नामादिनिक्षेपत्रयं द्रव्यास्तिकस्य मतम्, तदर्थशून्यत्वात् तस्य चाभावाव1-पज्जवट्ठिअस्स परूवणा (संमति.) । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy