________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ६
सद्भावासद्भावरूपतया प्रवर्त्तमानत्वात् द्रव्यधर्मसद्भावादेकत्वाध्यवसायकृतमेव तस्या द्रव्यार्थत्वमिति द्रव्यार्थिकनिक्षेपः स्थापना ।
२४
[ ३ द्रव्यनिक्षेपः ]
[ द्रव्यं व्याख्याय तत्र द्रव्यार्थिकनिक्षेपत्वभावनम् ]
द्रवति अतीताऽनागतपर्यायानधिकरणत्वेन अविचलितरूपं स (सत्) गच्छतीति द्रव्यम् तच्च भूतभाविपर्यायकारणत्वात् चेतनमचेतनं वा अनुपचरितमेव द्रव्यार्थिकनिक्षेपः [S. T.P.387]
[ द्रव्यनिक्षेपविषयस्य द्रव्यस्य आगमोक्तरीत्या स्वरूपवर्णनम् ]
द्रव्यं च अनुभूतपर्यायम् अनुभविष्यत्पर्यायं चैकमेव तेन 'अनुभूतपर्याय 'शब्देन तत् कदाचिदभिधीयते कदाचिच्च 'अनुभविष्यत्पर्याय' शब्देन यथा अतीतघृतसम्बन्धो घटो ‘घृतघटः’ इत्यभिधीयते भविष्यत्तत्सम्बन्धोऽपि तथैवाभिधानगोचरचारी । शुद्धतर- पर्यायास्तिकेन च निराकारस्य ज्ञानस्यार्थग्राहकत्वासम्भवात् साकारं ज्ञानमभ्युपगतम्, तत्संवेदनमेव चार्थसंवेदनं ज्ञानानुभवव्यतिरेकेणापरस्यार्थानुभवस्याभावात् घटोपयोग एव घटस्तन्मतेन । तत्पर्यायेण अतीतेन परिणतम्-परिणंस्यद् वा द्रव्यं तच्छब्दवाच्यं द्रव्यार्थिकमतेन व्यवस्थितं पूर्ववत् । अत एव घटाद्यर्थाभिज्ञस्तत्र च अनुपयुक्तो 'द्रव्यम्' इति प्रतिपादितो द्रव्यार्थिकनिक्षेपष्टा । द्रव्यमागमे अनेकधा प्रतिपादितम् इह तु युक्तिसंस्पर्शमात्रमेव प्रदर्श्यते तदर्थत्वात् प्रयासस्य । [ ४ भावनिक्षेपः ]
[ भावं व्याख्याय तत्र पर्यायार्थिकत्वकथनम् ]
भवति-विवक्षितवर्त्तमानसमयपर्यायरूपेण उत्पद्यते इति भावः, “ विभाषा ग्रहः " ( ३-११४३ सिद्धान्तकौ० अं० २९०५) इत्यत्र सूत्रे कैष्टिाद् “भवतेष्टा” इति णोऽपीष्यते । अथवा भूतिर्भावो वज्र-किरीटादिधारणवर्त्तमानपर्यायेणेन्द्रादिरूपतया वस्तुनो भवनम्, तद्ग्रहणपर्यायेण वा ज्ञानस्य भवनम् । यथा चायं पर्यायार्थिकप्ररूपणा तथा प्रदर्शित एव प्राक् न पुनरुच्यते । एष एव नयनिक्षेपानुयोगप्रतिपादितः उभयनयप्रविभागः परमार्थः परमं हृदयमागमस्यैतदव्यतिरिक्तविषयत्वात् सर्वनयवादानाम्, न हि शास्त्रपरमहृदयनयद्वय
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org