________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-६
अध्यारोपिताऽनध्यारोपितनाम-स्थापना-द्रव्य-भावनिबन्धनव्यवहारनिबन्धनतामनयोरेव प्रतिपादयन्नाहाचार्यः-नामं ठवणा इत्यादि ।
अस्याप्टा समुदायार्थः नाम स्थापना द्रव्यम् इति एष द्रव्यार्थिकस्य निक्षेपः । भावस्तु पर्यायार्थिकनिरूपणाया निक्षेप इति एष परमार्थः ।
[१ नामनिक्षेपः ] [ नाम व्याख्याय तत्र संकेतविधि-तद्विषययोः प्ररूपणम् ] तत्र यस्य कस्यचिद् वस्तुनो व्यवहारार्थमभिधानं निमित्तसव्यपेक्षम् अनपेक्षं वा यत् सङ्केत्यते तन्नाम । सङ्केतकरणं तु क्वचिद् अभेदेन यथा 'अयं घटः' इति, क्वचिद् भेदेन यथा 'अस्य चायं घटशब्दो वाचकः' इति भेदेन । एतच्च समानासमानाकारंपरिणत्यात्मकेऽपि वस्तुनि समानाकारप्रतिपादनायैव नियोज्यते तस्यानुगतत्वेन तत्र संकेतकरणसौकर्यात् । असमानपरिणतेष्वननुगमात् आनन्त्याञ्च न तत्र सङ्केतः कर्तुं शक्यः । शब्दव्यापाराञ्च वस्तुगतसदृशपरिणतेरेव प्रतिभासनात् स एव शब्दार्थो यः शाब्द्यां प्रतीतौ प्रतिभातीति नाऽसदृशपरिणामोऽत्यन्तविलक्षणस्तस्यार्थ इति वस्तुस्थितिः । [S.T.P. 379)
__ [२ स्थापनानिक्षेपः] [ स्थापनां व्याख्याय मुख्य-प्रतिनिध्योर्भेदाभेदपक्षद्वयेऽपि तस्या द्रव्यार्थिकनिक्षेपरूपत्व-व्यवस्थापनम् ]
सङ्केताभिधानस्यार्थस्य प्रतिकृतिकल्पना स्थापनेति यद् वस्तु सद्भूताकारेण स्थाप्यत इति णिजन्तात् कर्मणि षु(यु)प्रत्ययः । सापि द्रव्यार्थिकस्य निक्षेपः मुख्य-प्रतिनिधिविभागाभावात् सदविशेषात् सर्वस्य मुख्यार्थक्रियाकरणात् अन्यथोपयाचितादेस्ततोऽसिद्धिप्रसक्तेः तन्निमित्तद्रव्यादिविनियोगव्यवहाराभावप्रसक्तेष्टा मुख्यपदार्थरूपत्वात् स्थापनाया द्रव्यार्थत्वात् । अथवा अध्यवसायोपरचितमेव स्थापनायास्तदेकत्वम्, न पुनर्वास्तवम् अन्यथा मुख्यप्रतिनिधिविभागाभावप्रसक्तेस्तद्रूपोपलक्षकत्वाभावप्रसक्तेष्टा । नाभेदे उपलक्ष्योपलक्षकभाव उपपन्नः । नापि भिन्नदेशकालचेतनाऽचेतनमुक्तादिविभागो न्यायानुगतो भवेदिति सर्वत्र
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org