________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-६
यद्वा ऋजु बाह्यापेक्षया ग्राहकसंवित्तिभेदविकलमविभागं बुद्धिस्वरूपमकुटिलं सूत्रयतीति ऋजुसूत्रः शुद्धपयार्यास्तिकः, यद्वा सर्वधर्मविरहशून्यतेत्यभ्युपगमपरः शुद्धतरपर्यायास्तिकावलम्बी ऋजुसूत्रो व्यवस्थितः, अथवा सौत्रान्तिकवैभाषिकौ बाह्यार्थमाश्रितौ यथाक्रममृजुसूत्रशब्दौ, वैभाषिकेण नित्यानित्यशब्दवाच्यस्य पुद्गलस्याभ्युपगमाच्छब्दनये तस्यानुप्रदेशः । बाह्यार्थप्रतिक्षेपेण विज्ञानमात्राभ्युपगमपरः समभिरूढो योगाचारः । एकानेकधर्मविकलतया विज्ञानमात्रस्याप्यभाव इत्येवमभ्युपगमपर एवम्भूतो माध्यमिक इति सम्मतिवृत्तौ व्यवस्थितम्, तत्पूर्वपक्षसमाधानादिकमपि तत एवावसेयम्, विस्तरभयान्नेह विलिख्यते, नवीनतर्कस्पृहयालुभिष्टाात्रार्थे मत्कृतस्याद्वादकल्पलता परिशीलनीया । ऋजुसूत्रनयविचारः सम्पूर्णः ।।
-: द्वादशारनयचक्रे :
आरक ९ एवमेव चेति यदपि लक्षणकारेण शब्दनयलक्षणमुक्तम्-नाम-स्थापना-द्रव्यवाच्येष्टाकरणाद् भावयुक्तवाची शब्द: [ ] इति, भावः पर्यायो नियमो गुणो वा, तद्युक्तवाची तद्युक्तमर्थं ब्रूते इति शब्दनयमतं तदपि एवं युज्यते यदवक्तव्यमिति पर्यवणमात्रमाह, सामान्यविशेषैकत्वान्यत्वानेकात्मकस्य वस्तुनो वाचा वक्तुमशक्यत्वात् ।
शब्दनयदेशत्वात् पर्यवास्तिक एषः, [सम्मतौ] “तस्स तु सद्दविकप्पा साह-पसाहा सुहुमभेदा” (१/५) इति वचनाच्छब्दनयेऽन्तर्भूतः ।
[ नयवनिक्षेपाणामपि यथास्वं द्रव्यार्थिक-पर्यायार्थिकरूपतया विभजनम् ] नयानुयोगद्वारवत् शेषानुयोगद्वारेष्वपि द्रव्यार्थिक-पर्यायार्थिको मूलव्याकरणिनाविति दर्शयन्ननयोर्व्यापकताम्
नाम ठवणा दविए त्ति एस दव्वट्ठियस्स निक्खेवो ।
भावो उ पजवट्ठिअस्स परूवणा एस परमत्थो ।।६।। इत्यनया गाथया दर्शयत्याचार्यः । अथवा वस्तुनिबन्धनाध्यवसायनिमित्तव्यवहारमूलकारणतामनयोः प्रतिपाद्य अधुना 1- सद्दाईआ (संमति.) । 2- अ (स्या. कल्प.) । 3- पज्जवट्ठियपरूवणा (द्वाद. नय,, स्या. कल्प.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org