________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-५
सूक्ष्मास्तत्प्रशाखा अतिसूक्ष्मसूक्ष्मतरास्तत्प्रतिशाखाः, एवं ऋजुसूत्रतरोः स्थूलसूक्ष्मसूक्ष्मतरशाखाप्रशाखाप्रतिशाखारूपा अशुद्धशुद्धशुद्धतराः शब्दसमभिरूद्वैवम्भूताख्यास्त्रयो नया द्रष्टव्याः । तथा हि ऋजुसूत्राभ्युपगतं क्षणमात्रावस्थितिवस्तु लिङ्गादिभेदाद्भिन्नं शब्दो वृक्षाच्छाखामिव सूक्ष्ममभिमन्यते, समभिरूढः शब्दाभिमतं वस्तु सञ्ज्ञाभेदादपि भिद्यमानं शाखातः प्रशाखामिव सूक्ष्मतरमध्यवस्यति, तदेव समभिरूढाभिमतं वस्तु एवम्भूतः क्रियाभेदाद्भिन्नं प्रशाखातः प्रतिशाखामिव सूक्ष्मतममधिगच्छतीति । एतच्च ऋजुसूत्रपदव्युत्पत्तिनिमित्तं प्रत्युत्पन्नग्राहित्वं पर्यायनयत्वमात्रपर्यवसन्नमभिप्रेत्य द्रष्टव्यम् ।
यद्वा विशेषणभेदाप्रयुक्तऋजुसूत्रविषयप्रतियोगिकभेदानाधारप्रतीतिविषयकत्वमिह शब्दादीनामृजुसूत्रभेदत्वं परिभाष्यते, न ह्येवं व्यवहारस्य सङ्ग्रहभेदत्वं प्रसज्यते, विशेषणभेदाप्रयुक्तसामान्यलक्षणसङ्ग्रहविषयप्रतियोगिकभेदाधारविशेषविषयत्वात्तस्य । शब्दभिन्नत्वे सति प्रत्युत्पनग्राहित्वं लक्षणमभिप्रेत्य तु न शब्दादीनामृजुसूत्रभेदत्वम्, अन्यथा नयविभाजकोपाधिव्याप्यविभाजकोपाधिमत्त्वेन नयप्रभेदत्वापत्तेः-“सत्त मूलणया पण्णत्ता” इति सूत्रव्याकोपप्रसङ्गात्, न चान्यथाऽपि नयविभाजकोपाधिरूपद्रव्यार्थिकत्वपर्यायार्थिकत्वव्याप्यसङ्ग्रहत्वऋजुसूत्रत्वादिकमादाय सङ्ग्रहर्जुसूत्रादीनां नयप्रभेदत्वं दुर्निवारम्, द्रव्यार्थिकत्वपर्यायार्थिकत्वयोः प्रकृतविभागप्रयोजकविभाजकोपाधित्वाभावेन तददोषादिति स्मर्तव्यम्, अत एव नव नया-द्रव्यार्थिकः-१ पर्यायार्थिको-२ नैगमः-३ सङ्ग्रहो-४ व्यवहार-५ ऋजुसूत्रः-७ शब्द:-७ समभिरूढ-८ एवम्भूतप्टो-९ त्येकविभागकरणलम्पटदिक्पटकपटमपास्तमापभ्रांशिकप्रबन्धेऽस्माभिः ।
एवं हि द्रव्यार्थिकत्वपर्यायार्थिकत्वाभ्यां सामान्यतो नयविभागं कृत्वा सङ्ग्रहर्जुसूत्रादीनां द्रव्यार्थिकपर्यायार्थिकभेदानामेवानुपदमुपदर्शनेन विभक्तविभागः कृतः स्यात्, नत्वेकविभागः, सङ्ग्रहर्जुसूत्राद्यन्तर्भावशीलयोर्द्रव्यार्थिकपर्यायार्थिकयोः पृथग्विभागस्य कर्तुमशक्यत्वात्, अन्यथाऽर्पितानर्पितभेदद्वयाधिक्येनैकादशधापि किं न नयविभागो देवानांप्रियस्याभिमतः स्यात् ?, न च पञ्च नया इत्येक आदेशः सप्तेत्यन्य इतिवत्सप्त नया इत्येकः आदेशो नवेत्यन्य इत्यस्मदभिप्रेतमिति साम्प्रतम्, भिन्नविषयाणां शब्दादीनां त्रयाणां शब्दत्वेनैक्यं स्वातन्त्र्यं चाभिप्रेत्य पञ्चसप्तादेशभेदद्वयसम्भवेऽपि प्रकृते विषयभेदाभावेन तदसम्भवात्, न च सप्तधा नवधा च तत्त्वविभागवन्नयविभागोऽपि तथा नानुपपन्न इति वक्तुं युक्तम्, तत्र केवलनिःश्रेयसोपयोग्यभ्युदयसंवलिततदुपयोगिबोधलक्षणप्रयोजनभेदेन विभागद्वैविध्यसम्भवेऽपि प्रकृते प्रयोजनभेदाभावेनानुयोगद्वारस्थानाङ्गतत्त्वार्थमहाशास्त्राद्यभिहितं सप्तधानयविभागमुल्लङ्घ्य नवधा तत्करणस्य सूत्राशातनाकलङ्कितत्वादिति दिग् । अयं च सर्वोऽपि ऋजुसूत्रवचनविस्तारो बाह्यार्थाभ्युपगमपरो द्रष्टव्यः ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org