________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-५
नातीताऽनागतम् तस्याऽसत्त्वेन कुटिलत्वात् तस्य वचनम-पदं वाक्यं वा तस्य विच्छेदोऽन्तः -सीमेति यावत् । 'ऋजुसूत्रवचनस्य' इति कर्मणि षष्ठी , तेन ‘ऋजुसूत्रस्य एवमयमर्थो नान्यथा' इति प्ररूपयतो वचनं विच्छिद्यमानं यत् तत् मूलनिमेनम् अत्र गृह्यते । [S.T.P. 317]
तदेवं प्रत्यक्षतः अनुमानतप्टा क्षणिकत्वव्यवस्थितेः स्थितमेव तद् मूलाधारः पर्यायनयस्य ऋजुसूत्रवचनविच्छेद इति । तस्य ऋजुसूत्रतरोः तुः अवधारणार्थः, तेन तस्यैव न द्रव्यास्तिकस्य शब्दादयः शब्दादर्थं गमयन्तः शब्दनयत्वेन प्रतीताः शब्दसमभिरूद्वैवंभूतास्त्रयो नयाः शाखाप्रशाखा इव स्थूलसूक्ष्मतर(लसूक्ष्मसूक्ष्मतर) दर्शित्वात् सूक्ष्मो भेदो विशेषो येषां ते तथा । यथा हि तरोः स्थूलाः शाखाः, सूक्ष्मास्तत्पशाखाः, प्रतिशाखाअति (शाखाप्टा) सूक्ष्मतराः एवम् ऋजुसूत्रतरोः स्थूल-सूक्ष्म-सूक्ष्मतराः शाखा-प्रशाखा-प्रतिशाखारूपा अशुद्ध-शुद्ध-शुद्धतरपर्यायास्तिकरूपाः शब्द-समभिरूढै-वंभूतास्त्रयो नया द्रष्टव्याः । तथाहिऋजुसूत्राभ्युपगतं क्षणमात्रवृत्ति वस्तु लिङ्गादिभेदाद् भिन्नं शब्दो वृक्षाच्छाखामिव सूक्ष्ममभिमन्यते एकसंज्ञं समभिरूढः शब्दाभिमतं वस्तु संज्ञाभेदादपि भिद्यमानं शाखातः प्रशाखामिव सूक्ष्मतरमध्यवस्यति, तदेव समभिरूढाभिमतं वस्तु शब्दप्रतिपाद्यक्रियासमावेशसमय एव स्थिति(?)भूत एवंभूतः क्रियाभेदाद् भिन्नं प्रशाखातः प्रतिशाखामिव सूक्ष्मतममधिगच्छत्येवं बाह्यार्थाभ्युपगमपरः शब्द-समभिरूढेवंभूतभेदवानवगन्तव्यः ।। [S.T.P.349]
-: अनेकान्तव्यवस्थायाम् :
ऋजुसूत्रनयस्वरूपवर्णने पत्र. ५४ अयं चर्जुसूत्रनयः पर्यायनयतरोर्मूलम्, शब्दादीनामेतच्छाखारूपत्वात्, तदुक्तं सम्मती
“मूलनिमाणं पजवणयस्स उज्जुसुअवयणविच्छेदो ।।
तस्स उ सद्दाईया, साहपसाहा सुहुमभेया ||१/५ ।।" अस्यार्थः-मूलनिर्माणं मूलाधारः, पर्यायनयस्य ऋजुसूत्रवचनविच्छेदो लक्षणया प्रतिक्षणविवेचनेन विच्छिद्यमानवचनफलीभूतऋजुसूत्राख्यो नयबोधः, तस्य ऋजुसूत्रतरोः, तुरवधारणार्थः, तेन तस्यैव न द्रव्यार्थिकस्य, शब्दादयः शब्दप्राधान्येनार्थोपसर्जनत्वेन प्रतीतिजनकाः शब्दसमभिरूद्वैवम्भूताख्यास्त्रयो नयाः, शाखाप्रशाखा इव स्थूलसूक्ष्मतरदर्शित्वात् सूक्ष्मो भेदो येषां ते तथा, यथा हि तरोः स्थूलाः शाखाः 1- मूलणिमेणं (संमति.) । 2- मूलमादिः णिमेणं आधारः (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org