________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-५
संभवतीति । तथाहि-यद्यद्याका(यत् यदाका)रनिरपेक्षतया स्वग्राहिणि ज्ञाने प्रतिभासमाधत्ते तत् तथैव 'सत्' इति व्यवहर्तव्यम्, यथा प्रतिनियतंष्टा सत्तादिरूपम्, घटाद्याकारनिरपेक्षं च पटादिकं स्वावभासिनि ज्ञाने स्वरूपं सन्निवेशयतीति स्वभावो हेतुः । घटादिनिरपेक्षत्वं च पटादेः घटाद्यभावेऽपि भावात् अवभासमानाञ्च(सनाञ्च) सिद्धम् ।
यद्वा प्रतिशब्दो वीप्सायाम् रूपशब्दष्टा वस्तुन्यत्र प्रवर्त्तते । तेनायमर्थः-रूपं रूपं प्रति’यां वस्तु वस्तु प्रति यो वचनार्थनिष्टायस्तस्य प्रकृतिः स्वभावः स व्यवहार इति । तथाहि - प्रतिरूपमेव वचनार्थनिष्टायो व्यवहारहेतुर्न पुनरस्तित्वमात्रनिष्टायः, यतः ‘अस्ति' इत्युक्तेऽपि श्रोता शङ्कामुपगच्छन् लक्ष्यते अतः ‘किमस्ति' इत्याशङ्कायाम् 'द्रव्यम्' इत्युच्यते, तदपि 'किम् ? पृथिवी, सापि का ? वृक्षः, सोऽपि कः ? चूतः' तत्राप्यर्थित्वे यावत् 'पुष्पितः' ‘फलितः' इत्यादि तावन्निप्टिानोति यावद् व्यवहारसिद्धिरिति । व्यवहारो हि नानारूपतया सत्तां व्यवस्थापयति तथैव संव्यवहारसंभवात् । अतो व्यवहरतीति व्यवहार इत्यन्वर्थसंज्ञां बिभ्रत् अशुद्धा द्रव्यास्तिकप्रवृतिर्भवति ।।४ ।। [S.T.P.316]
[ पर्यायास्तिकैकप्रकृतिकानाम् ऋजुसूत्रादीनां शुद्धाशुद्धभावेन विभजनम् ] विशेषप्रस्तारस्य पर्यायनयो मूलव्याकरणी, शब्दादयष्टा शेषाः पर्यायनयभेदा इति प्रागुक्तम् तत्समर्थनार्थम्
मूलणिमेणं पजवणयस्स उजुसुयवयणविच्छेदो ।
तस्स उ सद्दाईआ साहपसाहा सुहुमभेया ।।५।। इति गाथासूत्रम् ।
अस्य तात्पर्यार्थः-पर्यायनयस्य प्रकृतिराद्या ऋजुसूत्रः स त्वशुद्धा, शब्दः शुद्धा, शुद्धतरा समभिरूढः, अत्यन्ततः शुद्धा त्वेवंभूत इति ।
अवयवार्थस्तु-मूलमादिः णिमेणं आधारः पर्यायो विशेषः तस्य नय उपपत्तिबलात् परिच्छेदः तस्य, ऋजु-वर्तमानसमयं वस्तु स्वरूपावस्थितत्वात् तदेव-सूत्रयति परिच्छिनत्ति
1- मूलनिमाणं (अने. व्य.) । 2-सद्दविकप्पा (द्वाद.नय.) । 3-मूलनिर्माणं मूलाधारः (अने. व्य.) ।
Jain Education International 2010 02
For Private & Personal Use Only
www.jainelibrary.org