________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-४
[ द्रव्यास्तिकैकप्रकृतिकयोः संग्रह-व्यवहारयोः
शुद्धाशुद्धतया भेदनिरूपणम् ] 'दव्वढिओ य पज्जवणओ य' इत्यादिपष्टााट्टैकदेशस्य विवरणाय आह सूरिः
दव्वट्ठियनयपयडी सुद्धा संगहपरूवणाविसओ ।
पडिरूवे पुण वयणथनिच्छओ तस्स ववहारो ।।४।। इति गाथासूत्रम् । अत च संग्रहनयप्रत्ययः शुद्धो द्रव्यास्तिकः व्यवहारनयप्रत्ययस्त्वशुद्ध इति तात्पर्यार्थः ।
अवयवार्थस्तु द्रव्यास्तिकनयस्य व्यावर्णितस्वरूपस्य प्रकृतिः स्वभावः शुद्धा इत्यसङ्कीर्णा विशेषासंस्पर्शवती संग्रहस्य अभेदग्राहिनयस्य प्ररूपणा-प्ररूप्यतेऽनयेति कृत्वा-उपवर्णना पदसंहतिस्तस्या विषयोऽभिधेयः । विषयापकारेण विषयिणो वृत्तस्य विषयव्यवस्थापकत्वादुपचारेण विषयेण विषयिप्रकथनमेतत् अन्यथा कः प्रस्तावः शुद्धद्रव्यास्तिकेऽभिधातुं प्रक्रान्ते संग्रहप्ररूपणाविषयाभिधानस्य ? [S.T.P.315]
व्यवहारस्य विशेषमिश्रितसत्ताविषयकत्वसाधनम् | तामेवाऽशुद्धं (द्धां) पडिरूवं पुण इत्यादिगाथापष्टाार्टेन दर्शयत्याचार्यः-प्रतिरूपं प्रतिबिम्बं प्रतिनिधिरिति यावत् । विशेषेण घटादिना द्रव्येण सङ्कीर्णा सत्ता, पुनरिति प्रकृतिं स्मरयति । तेनायमर्थः-विशेषेण संकीर्णा सत्ता प्रकृतिः स्वभावः वचनार्थनिष्टायः इति हेयोपादेयोपेक्षणीयवस्तुविषयनिवृत्ति-प्रवृत्त्युपेक्षालक्षणव्यवहारसंपादनार्थमुच्यत इति वचनम्, तस्य'घटः' इति विभक्तरूपतया ‘अस्ति' इत्यविभक्तात्मतया प्रतीयमानो व्यवहारक्षमः-अर्थस्तस्य निष्टायः निर्गतः पृथग्भूतः चयः परिच्छेदः तस्य इति द्रव्यास्तिकस्य व्यवहारः इति लोकप्रसिद्धव्यवहारप्रवर्त्तनपरः नयः । सोऽभिमन्यते यदि हि हेयोपादेयोपेक्षणीयस्वरूपाः परस्परतो विभिन्नस्वभावाः सद्रूपतया शब्दप्रभवे संवेदने भावाः प्रतिभान्ति ततो निवृत्तिप्रवृत्त्युपेक्षालक्षणो व्यवहारस्तद्विषयकप्रवृत्तिमासादयति नान्यथा; न चैकान्ततः सन्मात्राऽविशिष्टेषु भावेषु संग्रहाभिमतेषु पृथक् स्वरूपतया परिच्छेदोऽबाधितरूपो व्यवहारनिबन्धनं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org