________________
संमतितर्कप्रकरणे, काण्ड - १. गाथा - ३
इत्युक्ते कुतः 'कुट:' इति प्रतिपत्तिः तेन तदर्थस्यानभिहितत्वात् ? यथा वा 'पावक 'शब्दो - क्तेरन्यैव पावकशक्तिरन्वयव्यतिरेकाभ्यां लोकतः प्रसिद्धा तथा घटन-कुटनादिशक्तीनामपि भेदः प्रतीयत एवेति नानार्थवाचिन एव पर्यायध्वनयः नैकमर्थमभिनिवेशन्त इति समभिरूढः । उक्तं च
“तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम्” ।। [ एवंभूतनयस्वरूपम् ]
शब्दामिधेयक्रियापरिणतिवेलायामेव ' तद् वस्तु' इति भूत एवंभूतः प्राह-यथा संज्ञाभेदाद् भेदवद् वस्तु तथा क्रियाभेदादपि, सा च क्रिया तद्धेत्त्री यदैव तामाविशति तदैव तन्निमित्तं तत्तद्व्यपदेशमासादयति नान्यदेत्यतिप्रसङ्गात् । तथाहि--यदा 'घटते' तदैवासौ ‘घट:' न पुनः ‘घटितवान्’‘घटिष्यते’ वा 'घटः' इति व्यपदेष्टुं युक्तः सर्ववस्तूनां घटतापत्तिप्रसङ्गात् । अपि च, चेष्टासमय एव चक्षुरादिव्यापारसमुद्भूतशब्दानुविद्धप्रत्ययमास्कन्दन्ति चेष्टावन्तः पदार्थाः यथावस्थितार्थप्रतिभास एव च वस्तूनां व्यवस्थापको नान्यताभूतः अन्यथा अचेष्टावतोऽपि चेष्टावत्तया शब्दानुविद्धेऽध्यक्षप्रत्यये प्रतिभास्यत्य ( भास इत्य) भ्युपगमे तत्प्रत्ययस्य निर्विषयतया भ्रान्तस्यापि वस्तुव्यवस्थापकत्वे सर्वः प्रत्ययः सर्वस्यार्थस्य व्यवस्थापकः स्यादित्यतिप्रसङ्गः । तन्न घटनसमयात् प्राक् पष्टशाद् वा 'घटः ' तद्व्यपदेशमासादयतीत्येवंभूतनयमतम् । उक्तं च
“एकस्यापि ध्वनेर्वाच्यं तदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते” ।। [
तत् स्थितमेतत् ऋजुसूत्रादयः पर्यायास्तिकस्य विकल्पा इति । अस्याष्टा गाथायाः सर्वमेव शास्त्रं विवरणम् ।।३ ।। [S.T.P. 310 to 314]
Jain Education International 2010_02
] इति ।
For Private & Personal Use Only
१७
www.jainelibrary.org