________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ३
अतीताऽनागताभ्यां क्षणाभ्यां न सम्बन्धमनुभवत्येवं गोत्वादि कल्पनासामान्यविशेषस्वरूपपरस्परविरुद्धस्त्रीत्वाद्यन्यतमधर्मसम्बद्धं नान्यधर्मी (र्मि) सम्बद्धमनुभवति (?) विरुद्धधर्माध्यासस्य भेदलक्षणत्वात्, तथाप्यभेदे 'न किञ्चिद् भिन्नं जगदस्ति' इति भेदव्यवहार एवोत्सीदेत् । तथा, एकस्मिन्नुदकपरमाणौ ' आप:' इति बहुत्वसङ्ख्याया निर्देशोऽनुपपन्नः न ह्येकत्वसङ्ख्यासमाध्यासितं तदेव तद्विरुद्धबहुत्वसङ्ख्योपेतं भवतीत्येकसङ्ख्ययैव तन्निर्देष्टव्यम् । कालभेदाद् वस्तुभेदः ऋजुसूत्रेणाप्यभ्युपगत एवेति 'अग्निष्टोमयाजी पुत्रोऽस्य जनिता' इत्ययुक्तमेव वचः अतीताऽनागतयोः सम्बन्धाभावात् । तथा, अन्यकारकयुक्तं यत् तदेव अपरकारकसम्बन्ध (न्धं) नानुभवतीति अधिकरणं चेद् ग्रामः अधिकरणशब्दवाचि(करणवाचि) विभक्तिवाच्य एव न कर्माभिधानविभक्त्यभिधेयो युक्त इति 'ग्राममधिशेते' इति प्रयोगोऽनुपपन्नः । तथा, पुरुषभेदेऽपि नैकान्तद् (कं तद्) वस्तु इति 'एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पिता' इति च प्रयोगो न युक्तः अपि तु 'एहि मन्यसे यथाहं रथेन यास्यामि' इत्यनेनैव परभावेनैतन्निर्देष्टव्यम् । एवमुपग्रहणभेदेपि 'विरमति' इति न युक्तः आत्मार्थतायां हि ‘विरमते' इत्यस्यैव प्रयोगसङ्गतेः । न चैवं लोकशास्त्र-व्यवहारविलोप इति वक्तव्यम्, , सर्वत्रैव नयमते तद्विलोपस्य समानत्वादिति यथार्थशब्दनात् शब्दनयो व्यवस्थितः ।
|
तदुक्तम्
१६
“विरोधिलिङ्ग-सङ्ख्यादिभेदात् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते" [
[ समभिरूढनयस्वरूपम् ]
एकसंज्ञासमभिरोहणात् समभिरूढस्त्वाह-यथा हि विरुद्धलिङ्गादियोगाद् भिद्यते वस्तु तथा संज्ञाभेदादपि । तथाहि-संज्ञाभेदः प्रयोजनवशात् सङ्केतकर्तृभिर्विधीयते न व्यसनितया अन्यथा अनवस्थाप्रसक्तेः ततो यावन्तो वस्तुनः स्वाभिधायकाः शब्दास्तावन्तोऽर्थभेदाः प्रत्यर्थं शब्दनिवेशात् नैकस्यार्थस्यानेकेनाभिधानं युक्तमिति 'घटः ''कुटः’'कुम्भः' इति वचनभेदाद् भिन्न एवार्थः, क्रियाशब्दत्वाद् वा सर्वशब्दानां सर्वेऽप्यन्वर्था एव वाचकाः ततो ‘घटते' 'कुटति’ 'कौ भाति' इति च क्रियालक्षणनिमित्तभेदात् नैमित्तिकेनाप्यर्थेन भिन्नेन भाव्यमिति 'घटः '
Jain Education International 2010_02
]
For Private & Personal Use Only
www.jainelibrary.org