________________
संमतितर्कप्रकरणे, काण्ड - १, गाथा - ३
7
इत्यादि वचनात् तदाकारानुविधायिनी तदध्यवसायेन च तत्राविसंवादात् संवित् प्रमाणत्वेन गीयते । अध्यक्षधीष्टथाऽशब्दमर्थमात्मन्याधत्ते अन्यथा अर्थदर्शनप्रत्युतिप्रसङ्गात् । न ह्यक्षगोचरेऽर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमानेऽपि नियमेन प्रतिभासेरन्निति कथं तत्संसृष्टाः (ष्टा) अध्यक्षधीर्भवेत् ? किञ्च वस्तुसन्निधानेऽपि तन्नामानुस्मृतिं विना तदार्थस्यानुपलब्धाविष्यमाणायामर्थसन्निधिरक्षदृग्जननं प्रत्यसमर्थ इति अभिधानस्मृतादु (?) पक्षीणशक्तित्वान्न कदाचनापीन्द्रियबुद्धिं जनयेत् सन्निधानाविशेषात् । यदि चायं भवतां निर्बन्धः-स्वाभिधानविशेषणापेक्षमेव चक्षुरादिप्रतिपत्ति(?) स्वार्थमवगमयति तदाऽस्तंगतेय-मिन्द्रियप्रभवाऽर्थाधिगतिः तन्नामस्मृत्यादेरसम्भवात् । तथादि-यत्रार्थे प्राक् शब्दप्रतिपत्तिरभूत् पुनस्तदर्थवीक्षणे तत्सङ्केतितशब्दस्मृतिर्भवेदिति युक्तियुक्तम् अन्यथा अतिप्रसङ्गः स्यात् न चेद् अनभिलापमर्थं प्रतिपत्ता पश्यति तदा तत्र दृष्टमभिलापमपि न स्मरेत् अस्मरंष्टा शब्दविशेषं न तत्र योजयेत् अयोजयंष्टा न तेन विशिष्टमर्थं प्रत्येतीत्यायातमान्ध्यमशेषस्य जगतः । ततः स्वाभिधानरहितस्य विषयस्य विषयिणं चक्षुरादिप्रत्ययं प्रति स्वत एवोपयोगित्वं सिद्धं न तु तदभिधानानां तदर्थसम्बन्धरहितानां पारम्पर्येणापि सामर्थ्यासम्भवात् । इत्यर्थनया व्यवस्थिताः ।
[ शब्दनयस्वरूपम् ]
शब्दनयास्तु मन्यन्ते - कारणस्यापि विषयस्य प्रतिपत्तिं प्रति नैव प्रमेयत्वं युक्तं यावदध्यवसायो न भवेत् सोऽप्यध्यवसायविकल्पष्टोत् तदभिधानस्मृति (तिं) विना नोत्पत्तुं युक्तः इति सर्वव्यवहारेषु शब्दसम्बन्धः प्रधानं निबन्धनम् । प्रत्यक्षस्यापि तत्कृताध्यवसायलक्षणविकलस्य बहिरन्तर्वा प्रतिक्षणपरिणामप्रतिपत्ताविव प्रमाणतानुपपत्तेः अविसंवादलक्षणत्वात् प्रमाणानाम्, प्रतिक्षणपरिणामग्रहणेऽपि तस्य प्रामाण्याभ्युपगमे प्रमाणान्तरप्रवृत्तौ यत्नान्तरं क्रियमाणमपार्थकं स्यात् । ततः प्रमाणव्यवस्थानिबन्धनं तन्नामस्मृतिव्यवसाययोजनमर्थप्राधान्यमपहस्तयतीति शब्द एव सर्वत्र प्रमाणादिव्यवहारे प्रधानं कारणमिति स्थितम् । शब्दनयष्टा ऋजुसूत्राभिमतपर्यायात् शुद्धतरं पर्यायं स्वविषयत्वेन व्यवस्थापयति । तथाहि‘तटः’ ‘तटी’ ‘तटम्’ इति विरुद्धलिङ्गलक्षणधर्माक्रान्तं भिन्नमेव वस्तु, नहि तत्कृतं धर्मभेदमननुभवतस्तत्सम्बन्धो युक्तः तद्धर्मभेदे वा स्वयं धर्मी कथं न भिद्यते ? यथा हि क्षणिकं वस्तु
Jain Education International 2010_02
१५
For Private & Personal Use Only
www.jainelibrary.org