________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३
देश-कालान्तरसम्बद्धस्वभावरहितं वस्तुतत्त्वं साम्प्रतिकम् एकस्वभावम् अकुटिलम् ऋजु सूत्रयतीति ऋजुसूत्रः । न हि एकस्वभावस्य नानादिक्-कालसम्बन्धित्वस्वभावमनेकत्वं युक्तम् एकस्यानेकत्वविरोधात् । न हि स्वरूपभेदादन्यो वस्तुभेदः स्वरूपस्यैव वस्तुत्वोपपत्तेः । तथाहि-विद्यमानेऽपि स्वरूपे किमपरमभिन्नं वस्तु यद् रूपनानात्वेऽप्येकं स्यादिति ? यद् वस्तुरूपं येन स्वभावेनोपलभ्यते तत् तेन सर्वात्मना विनश्यति न पुनः क्षणान्तरसंस्पर्शीति क्षणिकम्, क्षणान्तरसम्बन्धे तत्क्षणाकारस्य क्षणान्तराकारविशेषाप्रसङ्गात् अतो जातस्य यदि द्वितीयक्षणसम्बन्धः प्रथमक्षणस्वभावं नापनयति तदा कल्पान्तरावस्थानसम्बन्धोऽपि तन्नापनयेत्, स्वभावभेदे वा कथं न वस्तुभेदः अन्यथा सर्वत्र सर्वदा भेदाभावप्रसक्तिः ? अक्षणिकस्य क्रम-योगपद्याभ्यामर्थक्रियानुपपत्तेरसत्त्वम्, सहकार्युपढौकितातिशयमनङ्गीकुर्वतस्तदपेक्षाऽयोगादक्षेपेण कार्यकारिणः सर्वकार्यमेकदैव विदध्यादिति न क्रमकर्तृत्वम्, न वा कदाचनापि स्वकार्यमुत्पादयेत् निरपेक्षस्य निरतिशयत्वात् नहि निरपेक्षस्य कदाचित् करणमकरणं वा विरोधात्, तत्कृतमुका(मुपका)रं स्वभावभूतमङ्गीकुर्वतः क्षणिकत्वमेव । व्यतिरिक्तत्वे वा सम्बन्धासिद्धिः, अपरोपकारकल्पनेऽनवस्थाप्रसक्तिः । युगपदपि न नित्यस्य कार्यकारित्वम् द्वितीयेऽपि क्षणे तत्स्वभावात् ततस्तदुत्पत्तितः तत्क्रमप्रसक्तेः । क्रमाऽक्रमव्यतिरिक्तप्रकारान्तराभावाञ्च न नित्यस्य सत्त्वम् अर्थक्रियाकारित्वलक्षणत्वात् तस्य । प्रध्वंसस्य च निर्हेतुकत्वेन स्वभावतो भावात् स्वरसभङ्गुरा एव सर्वे भावाः इति पर्यायाश्रितर्जुसूत्राभिप्रायः । तदुक्तम्
“अतीतानागताकारकालसंस्पर्शवर्जितम् ।
वर्तमानतया सर्वमृजुसूत्रेण सूत्र्यते" ।। [ ] प्रमाण-प्रमेयनिबन्धनं यद्यपि शब्दाऽर्थी सामान्येन भवतः तथापि साक्षात् परम्परया वा प्रमाणस्य कारणमेव स्वाकारार्पकविषयः, “नानुकृतान्वयव्यतिरेकं कारणम् नाक(क)रणं विषयः” [ ] तथा
"अर्थेन घटयत्येनां नहि मुक्तार्थरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता" ।। [ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org