________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३
विरोधप्रसक्तेः-कारक-ज्ञापकभेदे(द)परिकल्पनानुरोधेन व्यवहारमाचर(मारच)यन् प्रवर्तते इति कारणस्यापि न सर्वदा नित्यत्वम् कार्यस्यापि न सर्वदा नित्यत्वम् कार्यस्यापि नैकान्ततः प्रक्षय इति । ततप्टा न कदाचिदनीदृशं जगदिति प्रवृत्तोऽयं व्यवहारो न केनापि प्रवर्त्यते अन्यथा प्रवर्तकानवस्थाप्रसक्तिः । ततो न व्यवहारशून्यं जगत् । न च प्रमाणाविषयीकृतः पक्षोऽभ्युपगन्तुं युक्तः अदृष्टपरिकल्पनाप्रसक्तेः, दृष्टानुरोधेन ह्यदृष्टमपि वस्तु कल्पयितुं युक्तम् अन्यथा कल्पनासम्भवादिति संग्रह-नैगमाऽभ्युपगतवस्तुविवेकालोकप्रतीतपथानुसारेण प्रतिपत्तिगौरवपरिहारेण प्रमाण-प्रमेय-प्रमितिप्रतिपादनं व्यवहारप्रसिद्ध्यर्थं परीक्षकैः समाश्रितमिति व्यवहारनयाभिप्रायः । ततः स्थितं नैगम-संग्रह-व्यवहाराणां द्रव्यास्तिकनयप्रभेदत्वम् । विषयभेदप्टौषां प्रतिपादितः
“शुद्धं द्रव्यं समाश्रित्य संग्रहस्तदशुद्धितः ।
नैगम-व्यवहारौ स्तां शेषाः पर्यायमाश्रिताः" ।। [ तदुक्तम्
“अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते निगमो नयः" ।। [ “सद्रूपतानतिक्रान्त-स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृण्हन् संग्रहो मतः" ।। [ ] "व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । तथैव दृश्यमानत्वात् व्यवहारयति देहिनः" ।। [ ] इति ।
[ ऋजुसूत्रनयस्वरूपम् ] पर्यायनयभेदाः ऋजुसूत्रादयः
“तत्रर्जुसूत्रनीतिः स्यात् शुद्धपर्यायसंश्रिताः(ता)। नश्वरस्यैव भावस्य भावा (वात्) स्थितिवियोगतः" ।। [ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org