________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३
(नयलक्षणानि)
(संग्रह-नैगमनयस्वरूपम्) अत्र च नैगम-संग्रह-व्यवहारलक्षणास्त्रयो नयाः शुद्ध्यशुद्धिभ्यां द्रव्यास्तिकमतमाश्रिताः ऋजुसूत्र-शब्द-समभिरूढ-एवम्भूतास्तु शुद्धितारतम्यतः पर्यायनयभेदाः । तथाहि-संग्रहमतं तावत् प्रदर्शितमेव, येषां तु मतेन नैगमनयस्य सद्भावस्तैस्तस्य स्वरूपमेवं वर्णितमराश्यन्तरोपलब्धं नित्यत्वमनित्यत्वं च नयतीति निगमव्यवस्थाभ्युपगमपरो नैगमनयः । निगमो हि नित्याऽनित्य-सदसत्-कृतक(काऽ)कृतकस्वरूपेषु भावेष्वपास्तसाङ्कर्यस्वभावः सर्वथैव धर्मधर्मिभेदेन सम्पद्यत इति । स पुनर्नैगमोऽनेकधा व्यवस्थितः प्रतिपत्त्रभिप्रायवशान्नयवशान्नयव्यवस्थानात । प्रतिपत्तारप्टा नानाभिप्रायाः । यतः केचिदाहुः-“पुरुष एवेदं सर्वम्" [श्वेताश्वत. उ. अ. ३, १५] इत्यादि, यदाश्रित्योक्तम्
"ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्" [गीता अ. १५ श्लो. १] पुरुषोऽप्येकत्व-नानात्वभेदात् कैप्टिादभ्युपगतो द्वेधा, नानात्वेऽपि तस्य कर्तृत्वाऽकर्तृत्वभेदोऽपरैराश्रितः, कर्तृत्वेऽपि सर्वगतेतरभेदः, असर्वगतत्वेऽपि शरीरव्याप्त्यव्याप्तिभ्यां भेदः, अव्यापित्वेऽपि मूर्तेतरविकल्पाद् भेद एव । अपरैस्तु प्रधानकारणिकं जगद् अभ्युपगतम्, तत्रापि सेश्वर-निरीश्वरभेदाद् भेदाभ्युपगमः । अन्यैस्तु परमाणुप्रभवत्वमभ्युपगतं जगतः, तत्रापि सेश्वर-निरीश्वरभेदाद् भेदोऽभ्युपगतः, सेश्वरपक्षेऽपि स्वकृतकर्मसापेक्ष-त्वाऽनपेक्षत्वाभ्यां तदवस्थ एव भेदाभ्युपगमः । कैप्टिात् स्वभाव-काल-यदृच्छादिवादाः समाश्रिताः, तेष्वपि सापेक्षत्वाऽनपेक्षत्वाभ्युपगमाद् भेदव्यवस्था अभ्युपगतैव । तथा, कारणं नित्यम्, कार्यमनित्यमित्यपि द्वैतं कैप्टिादभ्युपगतम्, तत्रापि कार्यं स्वरूपं नियमेन त्यजति न वेत्ययमपि भेदाभ्युपगमः । एवं मूतैरेव मूर्त्तमारभ्यते, मूत्तैमूर्त्तम्, मूतैरमूर्त्तमित्याद्यनेकद्या प्रतिपत्त्रभिप्रायतोऽनेकधा निगमनान्नैगमोऽनेकभेदः ।
[ व्यवहारनयस्वरूपम् ] व्यवहारनयस्तु-अपास्तसमस्तभेदने(मे)कमभ्युपगच्छतोऽध्यक्षीकृतभेदनिबन्धनव्यवहार
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org