________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३
एयाण समोयारो दवट्ठिय-पज्जवट्ठियदुगम्मि ।
सेसेसु य संभवओ ताणं च परोप्परं कज्जो ।।३५८७।। एतेषां च संग्रहादिनयानां द्रव्यार्थिक-पर्यायार्थिकनयद्वये समवतारोऽन्तर्भावः कार्यः । उक्तं च[सम्मतौ]
"तित्थयरवयणसंगह-विसेसपत्थारमूलवायरणी ।
दव्वढिओ य पज्जवनओ य सेसा वियप्पा सिं ।।१/३ ।। तथा, तेषामेव संग्रहादिनयानां शेषेषु निष्टायनय-व्यवहार-ज्ञान-क्रियादिनयेषु पूर्वोक्तेषु वा सप्तसु नयशतेषु समवतारो विधेयः । तथा 'ताणं च' त्ति तेषामेव संग्रहादिनयानां परस्परं संभवतो यथासंभवं समवतारः कार्यः । तद्यथा-ऋजुसूत्रः पर्यायादिवादित्वसाम्यात् शब्दनये समवतरति, शब्दनयोऽपि भावाद्यभ्युपगमसाम्यात् समभिरूढे, सोऽपि प्रतिशब्दमन्यान्यार्थवाचित्वादिनैवम्भूते । एवमन्यथापि यथासंभवं परस्परमेषामन्तर्भावो वाच्य इति ।।३५८७।।
-: उत्तराध्ययनसूत्रे :
पाइअटीका-अध्ययन-१ नियुक्तिगाथा ३० ते हि तीर्थविधौ सर्वे, मातृकाख्यं पदत्रयम् । उत्पत्तिविगमध्रौव्यख्यापकं सम्प्रचक्षते ।।५।। उत्पत्तिविगमावत्र, मतं पर्यायवादिनः । द्रव्यार्थिकस्य तु ध्रौव्यं, मातृकाख्यपदत्रये ।।६।। ततष्टा-द्रव्यत्वमन्वयित्वेन, मृदो यद्वद् घटादिषु । तद्वदेवान्वयित्वेन, नामस्थापनयोरपि ।।७।। अन्वयित्वं तु सर्वत्र, सङ्केतान्नाम्र उच्यते । स्थापनायाप्टा तद्रूपक्रियातो बुद्धितोऽपि वा ।।८।। तन्नामस्थापनाद्रव्यनिक्षेपैरनुवर्तितः । द्रव्यार्थिकनयो भावनिक्षेपादितरः पुनः ।।९।।
तथा च महामतिः [सम्मतौ] - “तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी । दव्वढिओ वि' पज्जवणओ य सेसा वियप्पा सिं ।।१०।।" ।।१/३ ।। तथा “नामं ठवणा दविए त्ति एस दव्वट्ठियस्स निक्खेवो । भावो उ पज्जवट्ठिअस्स परूवणा एस परमत्थो ।।११।।" ।।१/६ ।।।
1. य (संमति.)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org