SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १० - नयोपदेशे : एवं सामान्यलक्षणं विविच्य तद्विभागमाह अयं संक्षेपतो द्रव्य-पर्यायार्थतया द्विधा । द्रव्यार्थिकमते द्रव्यं तत्त्वं नेष्टमतः परम् ।।१२।। नयामृत०-अयमिति-अयं सामान्यलक्षणलक्षितो नयः सङ्क्षेपतः अवान्तरभेदापरिग्रहेण, द्रव्यपर्यायार्थतया द्रव्यार्थिकः पर्यायार्थिकष्टोति द्विधा द्विप्रकारः, तीर्थंकरवचनसङ्ग्रह-विशेषप्रस्तारमूलत्वेनेत्थमेव मूलनयविभजनात्, तदाह वादी [सम्मतौ ] - संमतितर्कप्रकरणे, काण्ड-१, गाथा- ३ “तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी । दव्वट्ठिओ अ पज्जवणओ अ सेसा विगप्पा सिं ।। " (१/३) ति तत्रादौ द्रव्यार्थिकमतमाह - द्रव्यार्थिकस्य मते द्रव्यं तत्त्वं परमार्थसत्; अतः द्रव्यात् पृथग् भिन्नं विकल्पसिद्धं गुण-पर्यायस्वरूपं तत्त्वं नेष्टम्, संवृतिसतोऽपि तस्य परमार्थतोऽसत्त्वादिति भावः ।।१२ ।। ततः किम् ? इत्याह -: तत्त्वार्थाधिगमसूत्रे : महामहोपाध्यायश्रीयशोविजयजीकृतविवरणम् (अध्याय - १, सूत्र ३५) किंच सप्ततत्त्वविभागे प्रयोजनभेद उक्त एव, नवनयविभागे च न कष्टिशत्प्रयोजनभेदः । किं तु तीर्थंकरवचनसंग्रहविशेषण (विशेष) प्रयोजनाभ्यामादितो द्वयोरेव निरूपणं विधेयम् । तद्भेदजिज्ञासायां च सप्त निरूपणीया इति विभक्तविभागोऽयमेकप्रघट्टेन । नवानां मौलभेदानामभिधानं तु बालिशविलसितम् । तदिदमभिप्रेत्याह महावादी सिद्धसेनः [सम्मतौ ] Jain Education International 2010_02 "तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी । दव्वट्ठिओ य पज्जवणयो य सेसा विगप्पा सिं । । १ / ३ ।। " ति... ।। ३५ ।। -: विशेषावश्यकभाष्ये :मलधारगच्छीयपू.आ.हेमचन्द्रसूरीकृतटीका For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy