________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३
तेनात्रापि पर्याय एव ‘अस्ति' इति मतिरस्येति द्रव्यास्तिकवत् व्युत्पत्तिर्द्रष्टव्या; स च विशेषप्रस्तारस्य-ऋजुसूत्रशब्दादेः-आद्यो वक्ता । ननु च 'मूलव्याकरणी' इत्यस्य द्रव्यास्तिकपर्यायनयावभिधेयाविति द्वित्वाद् द्विवचनेन भाव्यम्, न; प्रत्येकं वाक्यपरिसमाप्तेः, अत एव चकारद्वयं सूत्रे निर्दिष्टम् । शेषास्तु नैगमादयो विकल्पा भेदाः अनयोर्द्रव्यार्थिकपर्यायार्थिकयोः । सिं इति प्राकृतशैल्या । “बहुवयणेण दुवयणं” [ ] इति द्विवचनस्थाने बहुवचनम् ।
तथाहि-परस्परविविक्तसामान्य-विशेषविषयत्वाद् द्रव्यार्थिक-पर्यायार्थिकावेव नयौ, न च तृतीयं प्रकारान्तरमस्ति यद्विषयोऽन्यस्ताभ्यां व्यतिरिक्तो नयः स्यात् । तृतीयविषयस्य चासम्भवो भेदाभेदविनिर्मुक्तस्य भावस्वभावस्यापरस्यानुपपत्तेः । ताभ्यामन्य एकस्तद्वानर्थोऽस्तीति चेत्, न; स्वभावान्तराभावात् प्रकृतविकल्पानतिवृत्तेस्तत्स्वभावातिक्रमे वा खपुष्पसदृशत्वप्रसक्तेः । ताभ्यां तद्वतोऽर्थान्तरस्य सर्वथा सम्बन्धप्रतिपादनोपायासम्भवात समवायस्य तैरसम्बन्धे तद्व्यपदेशानुपपत्तेः, समवायान्तरकल्पनायामनवस्थाप्रसक्तेः विशेषणविशेष्यसम्बन्धकल्पनायामप्यपरापरतत्कल्पनाप्रसक्तेर्न सम्बन्धसिद्धिः । ततः स्थितमेतद् न किञ्चिन्नयद्वयबहिर्भावि भावस्वभावान्तरविकल्पनावलम्बि प्ररूपणान्तरमिति । केवलं तयोरेव शुद्ध्यशुद्धिभ्यामनेकधा वस्तुस्वभावनिरूपणविकल्पाभिधानवृत्तयो व्यवतिष्ठन्ते । ।
तत्र शुद्धो द्रव्यास्तिको नयः संग्रहनयाभिमतविषयप्ररूढकः । तथा च संग्रहनयाभिप्रायः सर्वमेकं सत्, अविशेषात् । [S.T.P.272]
अशुद्धस्तु द्रव्यार्थिको व्यवहारनयमतार्थावलम्बी एकान्तनित्यचेतनाऽचेतनवस्तुद्वयप्रतिपादकसाङ्खयदर्शनाश्रितः । [S.T.P.280]
अत्र पर्यायास्तिक ऋजुसूत्र-शब्द-समभिरूढ-वम्भूतनयप्रत्ययराशिमूलव्याकरणी शुद्धाऽशुद्धतया व्यवस्थितः पर्यायलक्षणविषयव्यवस्थापनपरो द्रव्यास्तिकनयाभिप्रेतवस्तुव्यवस्थापनयुक्तिं प्रतिक्षिपति । [S.T.P. 285]
अशुद्धद्रव्यास्तिकसाङ्ख्यमतप्रतिक्षेपकस्तु पर्यायास्तिकः प्राह-यदुक्तं कापिलै: ‘प्रधानादेव महदादिकार्यविशेषाः प्रवर्त्तन्ते' इति । [S.T.P.296]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org