________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-३
व्याख्यातार्थावधारणसमर्थः यथा इति येन प्रकारेण भवति तं तथाभूतमर्थमुन्नेष्ये लेशतः प्रतिपादयिष्ये । [S.T.P. 173]
शेषस्त्वत्र पूर्वपक्षग्रन्थः प्रतिपदमुच्चार्य न प्रतिविहितः ग्रन्थगौरवभयाद् दिग्मात्रप्रदर्शनपरत्वाच्च प्रयासस्य । इति स्थितमेतत्-समयपरमत्थवित्थर इति ।।२ । । [S.T.P.270]
[ द्रव्यास्तिकनयनिरूपणम् ] । [१ सदद्वैतप्रतिपादकः शुद्धद्रव्यास्तिकनयः ] अत्र च कुण्ठधियोऽप्यन्तेवासिनो योगिताप्रतिपादनार्थः प्रकरणारम्भः प्रतिपादितः, सा च विशिष्टसामान्य-विशेषात्मकतदुपायभूतार्थप्रतिपादनमन्तरेणातः प्रकरणान्न सम्पद्यत इति प्रकरणाभिधेयं योगितोपायभूतमर्थम्
तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी ।
दव्वढिओ य' पज्जवणओ य सेसा वियप्पा सिं ।।३।। इत्यनया गाथया निर्दिशति । अस्याष्टा समुदायार्थः पातनिकयैव प्रतिपादितः ।
अवयवार्थस्तु-तरन्ति संसारार्णवं येन तत् तीर्थम्-द्वादशाङ्गम् तदाधारो वा सङ्घः-तत् कुर्वन्ति उत्पद्यमानमुत्पादयन्ति तत्स्वाभाव्यात् तीर्थकरनामकर्मोदयाद् वेति “हेत्वाद्यर्थे टच्” [ ] तीर्थकराणां वचनम्-आचारादि अर्थतस्तस्य तदुपदिष्टत्वात्-तस्य सङ्ग्रहविशेषौ द्रव्य-पर्यायौ सामान्य-विशेषशब्दवाच्यावभिधेयौ तयोः प्रस्तारः-प्रस्तीर्यते येन नयराशिना सङ्ग्रहादिकेन स प्रस्तारस्तस्य संग्रह-व्यवहारप्रस्तारस्य मूलव्याकरणी आद्यवक्ता ज्ञाता वा द्रव्यास्तिकः-द्रुतिर्भवनं द्रव्यम्-सत्तेति यावत् तत्र ‘अस्ति' इति मतिरस्य द्रव्यास्तिकः “सह सुपा” (अ॰ २, पा० १, सू०४ पाणि. व्या० पृ० १६० अ० ६४९) इत्यत्र ‘सुपा सह' इति योगविभागात् मयूरव्यंसकादित्वाद् वा द्रव्य-आस्तिकशब्दयोः समासः, द्रव्यमेव वाऽर्थोऽस्येति द्रव्यार्थिकः द्रव्ये वा स्थितो द्रव्यस्थितः । परि समन्तात अवनम अवः-पर्यवो विशेषस्तज्ज्ञाता वक्ता वा, नयनं नयो नीतिः पर्यवनयः अत्र छन्दोभङ्गभयात् ‘पर्यायास्तिकः' इति वक्तव्ये ‘पर्यवनयः' इत्युक्तम् । [S.T.P.271] 1. वि (उत्तरा. पाइअटीका)
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org