________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२
"सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते" ।।
[श्लो. वा. सू. १ श्लो. १२] पुनरप्युक्तम्
“अनिर्दिष्टफलं सर्वं न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन वाच्यमग्रे प्रयोजनम्" ।। [ ] "शास्त्रस्य तु फले दृष्टे तत्प्राप्त्याशावशीकृताः । प्रेक्षावन्तः प्रवर्त्तन्ते तेन वाच्यं प्रयोजनम्" ।। [ ] "यावत् प्रयोजनेनास्य सम्बन्धो नाभिधीयते । असम्बद्धप्रलापित्वाद् भवेत् तावदसङ्गतिः" ।।
[श्लो. वा. सू. १ श्लो. २०] "तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुस्सप्रयोजनः । शास्त्रावतारसम्बन्धो वाच्यो नान्यस्तु निष्फलः" ।।
[श्लो. वा. सू. १ श्लो. २५] इत्यादि । [S.T.P. 169]
अत्र च आगममलारहृदय इत्यनुवादेन समयपरमार्थविस्तरविहाटजनपर्युपासनसको यथा भवति तमर्थमुन्नेष्ये इति विधिपरा पदघटना कर्त्तव्या । [S.T.P. 172]
पदार्थस्तु मलमिव आरा प्राजनकविभागो यस्यासौ मलारो गौर्गली आगमे तद्वत् कुण्ठं हृदयं यस्य-तदर्थप्रतिपत्त्यसामर्थ्यात्-असौ तथा मन्दधीः, सम्यगीयन्ते परिच्छिद्यन्तेऽनेनार्था इति समय आगमः तस्य परमोऽकल्पितष्टाासावर्थः समयपरमार्थः तस्य विस्तरो रचनाविशेषः शब्दार्थयोप्टा भेदेऽपि पारमार्थिकसम्बन्धप्रतिपादनायाऽभेदविवक्षया ‘प्रथने वावशब्दे' (पाणि० ३, ३, ३३) इति घञ् न कृतः- तस्य विहाट इति दीप्यमानान् श्रोतृबुद्धौ प्रकाशमानानन् दीपयति प्रकाशयतीति विहाटप्टासौ जनप्टा चतुर्दशपूर्वविदादिलोकस्तस्य पर्युपासनम-कारणे कार्योपचारात् सेवाजनिततद्व्याख्यानं तत्र सह कर्णाभ्यां वर्त्तत इति सकर्णस्तद्
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org