________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-२
स्थानमनुपमसुखं प्रकर्षण गतानामिति । “परार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि तमर्थं गमयन्ति” [ ] इति न्यायादनुभूयमानतीर्थकृन्नामकर्मलेशसद्भावेऽपि तद् गता इव गता इत्युक्तास्तेन शासनप्रणेतृत्वं तस्यामवस्थायां तेषामुपपन्नमेव ।।
यद्वा “मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत् तापवर्जिताः” [ ] इत्येतस्य दुर्नयस्य निरासार्थमाह सूरिः- ठाणमणोवमसुहमुवगयाणं अत्र च स्थानमनुपमसुखम्-प्रकर्षण अपुनरावृत्त्या गतानाम्-उपगतानामिति व्याख्येयम् ।
अथवा “बुद्ध्यादीनां नवानां विशेषगुणानामात्यन्तिकः क्षय आत्मनो मुक्तिः” [ ] इति मतव्यवच्छेदार्थमाचार्येण- ठाणमणोवमसुहमुवगयाणं इति सूत्रमुपन्यस्तम् । अस्य चायमर्थः-स्थितिः स्थानं स्वरूपप्राप्तिस्तद् अनुपमसुखम् 'उप' इति सकलकर्मक्षयानन्तरमव्यवधानेन गतानां प्राप्तानाम्-शैलेश्यवस्थाचरमसमयोपादेयभूतमनन्तसुखस्वभावमात्मनः कथञ्चिदनन्यभूतं स्वरूपं प्राप्तानामिति यावत् । [S.T.P. 133]
तत् स्थितमेतत् ‘अनुपमसुखादिस्वभावामात्मनः कथञ्चिदव्यतिरिक्तां स्थितिमुपगतानाम्' इति ।।१ ।। [S.T.P. 166]
एवमिष्टदेवतानमस्कारकरणध्वस्तप्रकरणपरिसमाप्तिविवन्धकृत्क्लिष्टकर्मान्तरायः सूरिर्जिनप्रणीतत्वेन शासनस्य प्रकरणमन्तरेणापि स्वतः सिद्धत्वात् तदभिधेयस्य निष्प्रयोजनतामाशङ्कमानः समयपरमत्थ इत्यादिगाथासूत्रेण प्रकरणाभिधेयप्रयोजनमाह
समयपरमत्थवित्थरविहाडजणपज्जुवासणसयनो ।
आगममलारहियओ जह होइ तमत्थमुनेसुं ।।२।। तदेव चास्या गाथायाः समुदायार्थः । तञ्च श्रोतृप्रवृत्त्यर्थं प्रयोजनस्य प्रतिपत्तिमन्तरेण प्रेक्षावतां प्रवृत्त्यनुपपत्तेः अनभिहितप्रयोजनस्य शास्त्रस्य प्रेक्षापूर्वकारिभिः काकदन्तपरीक्षादेरिवानाश्रयणीयत्वात् । अतः प्रयोजनप्रदर्शनेन तेषां प्रवर्त्तनाय शास्त्रस्यादौ वाक्यं तत्प्रतिपादनपरमुपादेयम् । तदुक्तम्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org