________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१
प्रतिपादितः प्राक्; तदुपायेन च विपक्षरागादिजयद्वारेण तत्कार्यभूतस्य भवस्य जयः संभवति नान्यथेति । न ह्युपायव्यतिरेकेणोपेयसिद्धिः; अन्यथोपेयस्य निर्हेतुकत्वेन देश-कालस्वभावप्रतिनियमो न स्यादिति सर्वप्राणिनामीश्वरत्वम्, न वा कस्यचित् स्यात् । प्रतिपादितप्टाायमर्थः
“नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसंभवः" ।। [ ] इत्यादिना ग्रन्थेन धर्मकीर्त्तिना । तन्न रागादिक्लेशविगमः स्वभावत एवेश्वरस्येति युक्तम् ।
[S.T.P.69]
ननु यदि तेषां भवनिबन्धनरागादिजेतृत्वं तदा शासनप्रणेतृत्वानुपपत्तिः, तज्जयानन्तरमेवापवर्गप्राप्तेः शरीराभावे वक्तृत्वासंभवात् । अथ रागादिक्षयानन्तरं नापवर्गप्राप्तिस्तर्हि रागादिजयो न भवक्षयलक्षणापवर्गप्राप्तिकारणम्, न हि यस्मिन् सत्यपि यन्न भवति तत् तदविकलकारणं व्यवस्थापयितुं शक्यम, यवबीजमिव शाल्यकुरस्य । अथ निरवशेषरागाद्यजयाद् अपवर्गप्राप्तेः प्रागेव तत्प्रणेतृत्वाददोषः, नन्वेवं तच्छासनस्य रागलेशा55श्लिष्टपुरुषप्रणीतत्वेन नैकान्तिकं प्रामाण्यम्, कपिलादिपुरुषप्रणीतस्येव इत्याशझ्याह सूरिःठाणमणोवमसुहमुवगयाणं इति । अस्याभिप्रायः-यद्यपि सर्वज्ञताप्रतिबन्धिघातिकर्मचतुष्टयक्षयाविर्भूतकेवलज्ञानसम्पदो जिनास्तथापि भवोपग्राहिशरीरनिबन्धनस्य कर्मणः सद्भावादल्पस्थितिकस्य न शरीराद्यभावात् शासनप्रणेतृत्वानुपपत्तिः, नापि रागादिलेशसद्भावात् तत्प्रणीतागमस्याऽप्रामाण्यम्, विपर्यासहेतो_तिकर्मणोऽत्यन्तक्षयात् । न च कर्मक्षयादपरस्याप्रवृत्तिनिमित्तत्वम, भवोपग्राहिणोऽद्यापि सामस्त्येनाक्षयात् तत्क्षये चापवर्गस्यानन्तरभावित्वात् कर्मक्षयस्यैवापवर्गप्राप्तावविकलकारणत्वादिति । अवयवार्थस्तु-तिष्ठन्ति सकलकर्मक्षयावाप्तानन्तज्ञानसुखरूपाध्यासिताः शुद्धात्मानोऽस्मिन्निति स्थानं लोकाग्रलक्षणं विशिष्टक्षेत्रम्, न विद्यते उपमा स्वाभाविकात्यन्तिकत्वेन सकलव्याबाधारहितत्वेन च सर्वसुखातिशायित्वाद् यस्य तत् सुखमानन्दरूपं यस्मिंस्तत् तथा, तत् 'उप' इति कालसामीप्येन गतानां प्राप्तानाम्, यद्वा 'उप' इत्युपसर्गः प्रकर्षेऽप्युपलभ्यते, यथा “उपोढरागेण" [ ] इति । तेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org