________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१
अथवा सिद्धार्थानाम् इत्यनेन हेतुसंसूचनं विहितमाचार्येण-सिद्धाः प्रमाणान्तरसंवादतो निष्टिाताः, येऽर्था नष्ट-मुष्ट्यादयः, तेषां शासनं प्रतिपादकं यतो द्वादशाङ्गं प्रवचनमतो जिनानां कार्यत्वेन संबन्धि; तेनायं प्रयोगार्थः सूचितः-प्रयोगटा-प्रमाणान्तरसंवादियथोक्तनष्टमुष्ट्यादि-सूक्ष्मान्तरितदूरार्थप्रतिपादकत्वान्यथाऽनुपपत्तेर्जिनप्रणीतं शासनम् । [S.T.P.68]
कुसमयविशासनम् इति च अत्र व्याख्याने बुद्धादिशासनानामसर्वज्ञप्रणीतत्वप्रतिपादकत्वेन व्याख्येयम् । तथाहि-कुत्सिताः प्रमाणबाधितैकान्तस्वरूपार्थप्रतिपादकत्वेन, समयाः कपिलादिप्रणीतसिद्धान्तास्तेषाम् “सन्ति पञ्च महब्भूया” (सूत्रकृ. प्र. श्रु., प्र. अ., प्र. उ., गा. ७) इत्यादिवचनसंदर्भण दृष्टेष्टविषये विरोधाधुद्भावकत्वेन विशासनम् विध्वंसकं यतः अतो द्वादशाङ्गमेव जिनानां शासनमिति भवत्यतो विशेषणात् सर्वज्ञविशेषसिद्धिरिति स्थितमेतज्जिनशासनं द्वादशाङ्गं तत्त्वादेव सिद्धं निष्टिातप्रामाण्यमिति ।
[ईश्वरस्वरूपवादः ] अत्र ईश्वरकृतजगद्वादिनः प्राहुः-युक्तमुक्तम् ‘सर्वज्ञप्रणीतं शासनम्, तत्प्रणीतत्वाञ्च तत् प्रमाणम्' इति । इदं त्वयुक्तम् ‘राग-द्वेषादिकान् शत्रून् जितवन्त इति जिनाः' । सामान्ययोगिन एवेश्वरव्यतिरिक्त एतल्लक्षणयोगिनः न पुनः शासनादिसर्वजगत्स्रष्टा ईश्वरः । तथा च पतञ्जलि:
“क्लेश-कर्म-विपाकाऽऽशयैरपरामृष्टः पुरुषविशेष ईश्वरः” (योगद. पा. १, सू. २४) इति । अनेन सूत्रेण रागादिलक्षणक्लेशशत्रुरहितत्वं सहजमीश्वरस्य प्रतिपादितम्, न पुनर्विपक्षभावनाद्यभ्यासव्यापारात् क्लेशादिक्षयस्तत्र येन ‘रागादीन् स्वव्यापारेण जितवन्तः' इति वचः सार्थकं तद्विषयत्वेन स्यात् । तथा चान्यैरप्युक्तम्
"ज्ञानमप्रतिघं यस्य ऐश्वर्यं च जगत्पतेः ।
वैराग्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्" ।। [ ] इत्याशङ्क्याह भवजिणाणं इति, भवन्ति नारक-तिर्यग्-नराऽमरपर्यायत्वेनोत्पद्यन्ते प्राणिनोऽस्मिन्निति भवः संसारः, तद्धेतुत्वाद रागादयोऽत्र 'भव'शब्देनोपचाराद् विवक्षिताः,तं जितवन्त इति जिनाः । उपचाराश्रयणे च प्रयोजनम्-न ह्यविकलकारणे रागादौ अध्वस्ते तत्कार्यस्य संसारस्य जयः शक्यो विधातुमिति प्रतिपादनम् । भवकारणभूतरागादिजये चोपायः
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org