________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१
हेतोः प्रतिपादनेऽपि तदागमप्रणेतृत्वं हेत्वन्तरात् पुनः प्रतिपादनीयं स्यादिति हेत्वन्तरमुत्सृज्य प्रतिपादनगौरवपरिहारार्थं वचनविशेषलक्षण एव हेतुस्तत्सद्भावावेदक उपन्यसनीयः, स चानेन गाथासूत्रावयवेन सूचितः । अत एव संस्कृत्य हेतुः कर्त्तव्यः । तथाहि-यो यद्विषयाऽविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वको वचनविशेषः स तत्साक्षात्कारिज्ञानविशेषप्रभवः, यथाऽस्मदादिप्रवर्तितः पृथ्वीकाठिन्यादिविषयस्तथाभूतो वचनविशेषः, नष्ट-मुष्टिविशेषादिविषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वकवचनविशेषष्टाायं शासनलक्षणोऽर्थ इति ।
[S.T.P. 65] स्वासाध्याविनाभूतष्टा हेतुः साध्यधर्मिण्युपदर्शयितव्यो वादकथायामित्यभिप्रायवता आचार्येण गाथासूत्रावयवेन तथाभूतहेतुप्रदर्शनं कृतमिति । तथाहि-समयविशासनम् इत्यनेन गाथासूत्रावयववचनेन स्वसाध्यव्याप्तस्य हेतोः साध्यधर्मिण्युपसंहारः सूचितः [S.T.P.67]
प्रतिबन्धप्रसाधकं चास्य हेतोः प्रागेव दृष्टान्तधर्मिणि प्रमाणं प्रदर्शितमित्यभिप्रायवतैव आचार्येणापि कुसमयविसासणं इति सूत्रे कुः इत्यनेन दृष्टान्तसूचनं विहितम्, न च पक्षवचनाद्युपक्षेपः सूचितः ।
ननु भवत्वस्माद्धेतोर्यथोक्तप्रकारेण सर्वज्ञमात्रसिद्धिर्न पुनस्तद्विशेषसिद्धिः । तथाहि-यथा नष्ट-मुष्ट्यादिविषयवचनविशेषस्य अर्हत्सर्वज्ञप्रणीतत्वं वचनविशेषत्वात् सिध्यति तथा बुद्धादिसर्वज्ञपूर्वकत्वमपि तत एव सेत्स्यतीति कुतस्तद्विशेषसिद्धिः ? न च नष्टमुष्ट्यादिप्रतिपादको वचनविशेषोऽर्हच्छासन एवेति वक्तुं युक्तम्, बुद्धशासनादिष्वपि तस्योपलम्भात् इत्याशझ्याह सूरिः सिद्धत्थाणं इति । अस्यायमभिप्रायःप्रत्यक्षाऽनुमानादिप्रमाणविषयत्वेन प्रतिपादिताः शासनेन ये ते तद्विषयत्वेनैव तैर्निप्टिाता इति सिद्धाः, ते च 'अर्यन्ते' इति अर्था उच्यन्ते, तेषां शासनं प्रतिपादकम अर्हत्सर्वज्ञशासनमेव न बुद्धादिशासनम् । अतो वचनविशेषत्वलक्षणस्य हेतोस्तेष्वसिद्धत्वात् कुतस्तेषामपि सर्वज्ञत्वं येन विशेषसर्वज्ञत्वसिद्धिर्न स्यात् ? यथा चागमान्तरेण प्रत्यक्षादिविषयत्वेन प्रतिपादितानामर्थानां तद्विषयत्वं न संभवति तथाऽत्रैव यथास्थानं प्रतिपादयिष्यते ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org