________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-१
मतिशयतः स्तवार्हम्' इति निष्टिान्वन् ‘असाधारणगुणोत्कीर्तनस्वरूप एव च पारमार्थिकस्तवः' इति च संप्रधार्य शासनस्याभीष्टदेवताविशेषस्य प्रधानभूतसिद्धत्व-कुसमयविशासित्वाऽर्हत्प्रणीतत्वादिगुणप्रकाशनद्वारेण स्तवाभिधायिकां गाथामाह
सिद्धं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं ।
कुसमयविसासणं सासणं जिणाणं भवजिणाणं ।।१।। ___ अस्याप्टा समुदायार्थ एतत्पातनिकयैव प्रकाशित;, अवयवार्थस्तु प्रकाश्यते-शास्यन्ते जीवादयः पदार्था यथावस्थितत्वेन अनेनेति शासन द्वादशाङ्गम्, तञ्च सिद्धं प्रतिष्ठितम्निष्टिातप्रामाण्यमिति यावत्-स्वमहिम्नैव, नातः प्रकरणात् प्रतिष्ठाप्यम् । [S.T.P. 1]
शब्दसमुत्थस्य तु अभिधेयविषयज्ञानस्य यदि प्रामाण्यमभ्युपगम्यते तदा अपौरुषेयत्वस्यासम्भवाद् गुणवत्पुरुषप्रणीतस्तदुत्पादकः शब्दोऽभ्युपगन्तव्यः, अथ तत्प्रणीतत्वं नाभ्युपगम्यते तदा तत्समुत्थज्ञानस्य प्रामाण्यमपि न स्यादित्यभिप्रायवानाचार्यः प्राह-जिनानाम् राग-द्वेषमोहलक्षणान् शत्रून् जितवन्त इति जिनास्तेषां शासनं तदभ्युपगन्तव्यमिति प्रसङ्गसाधनम् । [S.T.P. 29]
अथापि स्यात्-स्वविषयाविसंवादिवचनविशेषस्य तद्विषयाविसंवादिज्ञानपूर्वकत्वमात्रमेव भवता प्रसाधितम्, न चैतावताऽनन्तार्थसाक्षात्कारिज्ञानवान् सर्वज्ञः सिद्धिमासादयति, सकलसूक्ष्मादिपदार्थसार्थसाक्षात्कारिज्ञानविशेषपूर्वकत्वे हि वचनविशेषस्य सिद्धे तज्ज्ञानवतः सर्वज्ञत्वसिद्धिः स्यात् । न च तथाभूतज्ञानपूर्वकत्वं वचनविशेषस्य सिद्धम्, अनुमानादिज्ञानादपि स्वविषयाविसंवादिवचनविशेषस्य संभवात्; न च तथाभूतज्ञानवान् सर्वज्ञो भवद्भिरभ्युपगम्यत इत्येतद् हृदि कृत्वाऽऽह सूरिः कुसमयविसासणं इति । सम्यक्-प्रमाणान्तराविसंवादित्वेन-ईयन्ते परिच्छिद्यन्ते इति समयाः-नष्ट-मुष्टि-चिन्ता-लाभाऽलाभ-सुखाऽसुखजीवित-मरण-ग्रहो-परागमन्त्रौषधशक्त्यादयः पदार्थाः-तेषां विविधम-अन्यपदार्थकारणत्वेन कार्यत्वेन चानेकप्रकारम्-शासनं प्रतिपादकं यतः शासनं कुः पृथ्वी तस्या इव । ___ अयमभिप्रायः-ज्ञत्व-प्रमेयत्वादेरनेकप्रकारस्य प्रतिपादितन्यायेन सर्वज्ञसत्त्वप्रतिपादकस्य हेतोः सद्भावेऽपि तत्कृतत्वेन शासनप्रामाण्यप्रतिपादनार्थं सर्वज्ञोऽभ्युपगम्यते; तस्य चान्यतो
• S.T.P = सन्मतितर्क प्रकरणम्, प्रका. गुजरात विद्यापीठ, पांच भाग ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org.