________________
राजगच्छीय-तर्कपञ्चानन-श्रीमदभयदेवसूरिनिर्मिततत्त्वबोधविधायिन्याख्यायाः व्याख्यायाः मूलगाथास्पर्शिव्याख्यांशसहितं कतिपयमूलगाथानां च विभिन्नग्रन्थेषु तत्तद्ग्रन्थकारैः कारिताभिर्वृत्तिभिर्युक्तं महादार्शनिकशिरोमणिविक्रमादित्यादिनृपतिप्रतिबोधकश्रीसिद्धसेनदिवाकररचितं
संमतितर्क-प्रकरणम् ।
प्रथमः काण्डः । स्फुरद्वागंशुविध्वस्तमोहान्धतमसोदयम् | वर्धमानार्कमभ्यर्च्य यते सम्मतिवृत्तये ।।१।। प्रज्ञावद्भिर्यद्यपि सम्मतिटीकाः कृताः सुबह्वाः । ताभ्यस्तथाऽपि न महानुपकारः स्वल्पबुद्धीनाम् ।।२।। शेमुष्युन्मेषलवं तेषामाधातुमाश्रितो यत्नः ।
मन्दमतिना मयाऽप्येष नात्र संपत्स्यते विफल: ।।३।। 'इह च शारीर-मानसानेकदुःखदारिद्रोपद्रवविद्रुतानां निरुपमाऽनतिशयानन्तशिवसुखानन्यसमाऽवन्ध्यकारणसम्यग्ज्ञान-दर्शन-चारित्रात्मकपरमरत्नत्रयजिघृक्षया अतिगम्भीरजिनवचनमहोदधिमवतरीतुकामानां तदवतरणोपायमविदुषां भव्यसत्त्वानां तद्दर्शनेन तेषां महानुपकारः प्रवर्त्तताम्, तत्पूर्वकप्टात्मोपकारः' इति मन्वान आचार्यो दुष्षमाऽरसमाश्यामासमयोद्भूतसमस्तजनताहार्दसंतमसविध्वंसकत्वेनावाप्तयथार्थाभिधानः सिद्धसेनदिवाकरस्तदुपायभूतसम्मत्याख्यप्रकरणकरणे प्रवर्त्तमानः “शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्त्तमाना अभीष्टदेवताविशेषस्तवविधानपुरस्सरं प्रवर्त्तन्ते” इति तत्समयपरिपालनपरस्तद्विधानोद्भूतप्रकृष्टशुभभावानल्पज्वलदनलनिर्दग्धप्रचुरतरक्लिष्टकर्माविर्भूतविशिष्टपरिणतिप्रभवां प्रस्तुतप्रकरणपरिसमाप्तिं चाऽऽकलयन् ‘अर्हतामप्यर्हत्ता शासनपूर्विका, पूजितपूजकप्टा लोकः, विनयमूलप्टा स्वर्गा-ऽपवर्गादिसुखसुमनःसमूहानन्दामृतरसोदग्रस्वरूपप्राप्तिस्वभावफलप्रदानप्रत्यलो धर्मकल्पद्रुमः' इति प्रदर्शनपरैर्भुवनगुरुभिरप्यवाप्तामलकेवलज्ञानसंपद्भिस्तीर्थकृद्भिः शासनार्थाभिव्यक्तिकरणसमये विहितस्तवत्वात् 'शासन
___JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org