________________
२०८
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४९
परस्परव्यावृत्तनवलक्षणयोगित्वात्, उभयाभिमतनवघटादिवत् । एवं रूपादयष्टातुर्विंशतिगुणाः । उत्क्षेपणादीनि पञ्च कर्माणि । पराऽपरभेदभिन्नं द्विविधं सामान्यमनुगतज्ञानकारणम् । नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्तबुद्धिहेतवः । अयुतसिद्धानामाधार्याऽऽधारभूतानाम् ‘इह' इतिप्रत्ययहेतुर्यः संबन्धः स समवाय एको व्यापकप्टा । अत्र च पदार्थषट्के द्रव्याणि गुणाष्टा केचिन्नित्या एव, केचित् त्वनित्या एव । कर्म अनित्यमेव । सामान्य-विशेषसमवायास्तु नित्या एवेति पदार्थव्यवस्था । ततप्टौतत् शास्त्रं तथापि मिथ्यात्वम्, तत्प्रदर्शितपदार्थषट्कस्य प्रमाणबाधितत्वात् । [S.T.P.657]
तदेवमुलूकप्रतिपादितशास्त्रस्य मिथ्यात्वम् तदभिहितपदार्थानामप्रमाणत्वात् प्रमाणबाधितत्वाञ्च । आचार्यस्तु एतत् सर्वं हृदि कृत्वा तन्मिथ्यात्वाऽविनाभूतं प्रतिपादितसकलन्यायव्यापकम् ‘जं सविसय' इत्यादिना गाथापष्टार्थेन हेतुमाह-यस्मात् स्वविषयप्रधानताव्यवस्थिताऽन्योन्यनिरपेक्षोभयनयाश्रितं तत् अन्योन्यनिरपेक्षनयाश्रितत्वस्य मिथ्यात्वादिनाऽविनाभूतत्वात् ।।४९ ।। [S.T.P.704]
-: विशेषावश्यकभाष्यम् :एवं सामान्य-विशेषेषु प्ररूपितेषु परः प्राह
नणु दव्य-पज्जवट्ठियनयावलंबि त्ति नेगमो चेव ।
सम्मट्ठिी साहु व्व कीस मिच्छत्तभेओऽयं ? ।। २१९३ ।। आह– नन्वेयं सति यत् सामान्यं तद् द्रव्यम्, विशेषास्तु पर्यायाः, ततो द्रव्य-पर्यायास्तिकनयद्वयमतावलम्बित्वात् सम्यगदृष्टिरेवायं नैगमनयः, जैनसाधुवत् । न हि जैनसाधवोऽपि द्रव्य-पर्यायोभयरूपाद् वस्तुनोऽन्यत् किञ्चिदिच्छन्ति । तत् किमित्यसौ मिथ्यात्वभेदः ? इति ।। २१९३ ।।
जं सामनविसेसे परोत्परं वत्थुओ य सो भिन्ने । मन्नइ अञ्चंतमओ मिच्छविट्ठी कणादो व्व ।। २१९४ ।। दोहिं वि नएहिं नीयं सत्थमुलूएण तह वि मिच्छत्तं ।
जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा ।। २१९५ ।। यद् यस्मात् सामान्य-विशेषौ नैगमनयः परस्परमत्यन्तभिन्नौ मन्यते, वस्तुनोऽप्याधारभूताद् द्रव्य
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org