________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४९
२०७
[ द्रव्यास्तिक-पर्यायास्तिकोभयाश्रितस्यापि वैशेषिकसमयस्य कथं मिथ्यात्वमिति
प्रश्नस्य प्रतिवचनम् ] | ननु भवतु परस्परनिरपेक्षैकैकनयावलम्बिनोः साङ्ख्य-सौगतमतयोमिथ्यात्वम्, कणभुग्मतस्य तु द्रव्यार्थिक-पर्यायार्थिकनयद्वयावलम्बिनः कथं मिथ्यात्वम् ? इत्यत्राह
दोहि वि णएहि णीअं सत्थमुलूएण तह वि मिच्छत्तं ।
जं सविसअप्पहाणत्तणेण अण्णोण्णनिरवेक्खा' ।।४९।। द्वाभ्यामपि द्रव्यार्थिक-पर्यायार्थिकनयाभ्यां प्रणीतं शास्त्रम् उलूकेन वैशेषिकशास्त्रप्रणेत्रा, द्रव्य-गुणादेः पदार्थषट्कस्य नित्यानित्यैकान्तरूपस्य तत्र प्रतिपादनात् ।
[ कणादोक्तषट्पदा व्यवस्थाया उपन्यासः ] तथाहि-द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाख्याः षडेव पदार्थाः, न्यूनाऽधिकप्रतिपादकप्रमाणाभावे परस्परविविक्तस्वरूपषट्पदार्थव्यवस्थापकप्रमाणविषयत्वात्, उभयाभिमतघटादिषट्पदार्थवत् । तत्र पृथिव्यप्-तेजो-वाय्वाकाश-काल-दिगात्म-मनांसि नवैव द्रव्याणि । 'पृथिवी आपः तेजो वायुः' इत्येतत् चतुःसंख्यं नित्याऽनित्यभेदाद् द्विप्रकारं द्रव्यम्; तत्र परमाणुरूपं नित्यम् “सदकारणवन्नित्यम्” [वैशेषिकद० ४-१-१] इति वचनात्, तदारब्धं तु ट्यणुकादि कार्यद्रव्यमनित्यम् । आकाशादिकं तु नित्यमेव, अनुत्पत्तिमत्त्वात् । एषां च द्रव्यत्वाभिसंबन्धाद् द्रव्यरूपता, द्रव्यत्वाभिसंबन्धष्टा द्रव्यत्वसामान्योपलक्षितसमवायः, तत्समवेतं वा सामान्यम्, एतच्चेतरव्यवच्छेदकमेषां लक्षणम् । तथाहि-पृथिव्यादीनि मनःपर्यन्तानि इतरेभ्यो भिद्यन्ते 'द्रव्याणि' इति वा व्यवहर्तव्यानि द्रव्यत्वाभिसंबन्धात्, यानि तु नैवम् न च तानि द्रव्यत्वाभिसंबन्धवन्ति, यथा गुणादिवस्तूनि, इति केवलव्यतिरेकिहेतुबलात्, पृथिव्यादीनि द्रव्याणि गुणादिभ्यो व्यावृत्तरूपाणि सिद्धानि । पृथिव्यादीनामपि भेदवतां पृथिवीत्वाभिसंबन्धादिकं लक्षणमितरेभ्यो भेदव्यवहारे तच्छब्दवाच्यत्वे वा साध्ये केवलव्यतिरेकिरूपं द्रष्टव्यम् । अभेदवतां त्वाकाश-काल-दिग्दव्याणामनादिसिद्धतच्छन्दवाच्यता द्रष्टव्या । नवैव चैतानि द्रव्याणि, न्यूनाधिकत्वप्रतिपादकप्रमाणाभावे
1.णिखेक्खं (स्या. कल्प.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org