________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा- ४८
]
[ कं कं नयमाश्रित्य कस्कः समयः प्रस्थित इति प्रश्नस्य व्याकरणम् ननु कं नयमाश्रित्य कः परसमयः प्रवृत्तः ? को वा कस्य विषयः ? इत्याहजं काविलं दरिसणं एयं दव्वट्ठियस्स वत्तव्वं । सुद्धोअणतणअस्स उ परिसुद्धो पज्जवविअप्पो ।।४८ ।।
२०६
यत् कापिलं दर्शनं सांख्यमतम् एतद् द्रव्यास्तिकनयस्य वक्तव्यम् - तद्विषयविषयम् तदुत्थापितं चेति भावः- :- शौद्धोदनेस्तु परिशुद्धः पर्यायविशेष एव वक्तव्यः-परिशुद्धपर्यायास्तिकनयविशेषविषयं तदुत्थापितं च सौगतमतमित्यभिप्रायः । मिथ्यास्वरूपनयप्रभवत्वाद् अनयोर्मिथ्यात्वं प्राक् प्रदर्शितमेव । ।४८ ।।
-: शास्त्रवार्त्तासमुच्चये
स्याद्वादकल्पलताटीकायां स्त. ७, गा. ६६
यावन्तष्टा नयवादास्तावन्त एव परसमयाः, निरपेक्षवक्तृविकल्पमात्रकल्पितत्वात् तेषाम् । तथाहि–कापिलं दर्शनं निरपेक्षद्रव्यार्थिकनयविकल्पप्रसूतम्, बौद्धदर्शनं च निरपेक्षशुद्धपर्यायास्तिकनयविकल्पजनितम्, द्वाभ्यामपि च परस्परनिरपेक्षाभ्यां द्रव्यार्थिक-पर्यायार्थिकाभ्यां प्रणीतमौलूक्यदर्शनम् । तदाह - [ सम्मतौ ]
काविलं दरिसणं एयं दव्वट्ठि अस्स वत्तव्वं ।
सुद्धो अणतणयस्स उ परिसुद्धो पज्जवविअप्पो ।। ३/४८ ।। दोहि वि णएहि णीअं सत्थमुलूएण तह वि मिच्छतं । सविसयप्पहाणत्तणेण अन्नुन्नणिरवेक्खं ।। ३/४९ ।।
--
एवमौपनिषददर्शनादीनामपि संग्रहनयादेः प्रादुर्भूतिर्भावनीया ।
1. णिरवेक्खा ( संमति ) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org