________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३५
१८५
प्रतिज्ञेयम् द्रव्यात् तथाभूततद्ग्राहकत्वपरिणतादात्मलक्षणात् प्रमाणादित्यपि व्याख्येयम् नहि तथाभूतप्रमाणप्रवृत्तिस्तथाभूतार्थमन्तरेणोपपन्ना धूम इव धूमध्वजमन्तरेण, संवेद्यते च तथा भूतग्राह्य-ग्राहकरूपतया अनेकान्तात्मकं स्वसंवेदनतः प्रमाणमिति न तदपलापः कर्तुं शक्यः; अन्यथाऽतिप्रसङ्गात् ।
यद्वा देशादिविप्रकृष्टा उत्पत्ति-विनाश-स्थितिस्वभावा भिन्नाभिन्नकाला अर्थान्तरानान्तररूपाः, द्रव्यत्वात्-द्रव्याव्यतिरिक्तत्वादित्यर्थः-अन्यथोत्पादादीनामभावप्रसक्तेः । तेभ्यो वा द्रव्यमर्थान्तरानर्थान्तरम्, द्रव्यत्वात् । प्रतिज्ञार्थैकदेशता च हेतो शङ्कनीया द्रव्यविशेषे साध्ये द्रव्यसामान्यस्य हेतुत्वेनोपन्यासात् ।।३५ ।।
___-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.१, गा.७५ न तथाभाविनं हेतुमन्तरेणोपजायते ।
किञ्चिन्नश्यति चैकान्ताद् यथाह व्यासमहर्षिः ।। ७५ ।। तथाभाविनं-कार्यरूपतया भवनशीलं, हेतुं विना कमपि न जायते, तत्परिणामकृतद्रव्यावस्थाविशेषरूपत्वात् तत्परिणामोत्पादस्य । न चैकान्ताद्-द्रव्यपृथग्भावेन किञ्चिद् नश्यति, तत्परिणामोत्तरद्रव्यावस्थारूपत्वात् तद्विनाशस्य । न चैवं द्रव्यमेव स्यात् न तूत्पादविनाशौ, कथञ्चिद् भिन्नत्वस्यापीष्टत्वात् । तदिदमुक्तं सम्मतौ
तिण्णि वि उप्पायाई अभिन्नकाला य भिन्नकाला य ।
अत्यंतरं अणत्यंतरं च दवियाहि णायव्वा ।। ३/३५ ।। अत्रैकप्रतियोगिनिरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वोत्पादस्थितिविगमानां भिन्नकालता, यथा घटोत्पादसमये घटविशिष्टमृदुत्पादसमये वा न तद्विनाशः, अनुत्पत्तिप्रसक्तेः । नापि तद्विनाशसमये तदुत्पत्तिः, अविनाशप्रसक्तेः । न च तत्प्रादुर्भावसमय एव तत्स्थिति, तद्रूपेणावस्थितस्यानवस्थाप्रसक्त्या प्रादुर्भावाऽयोगात् । अतो द्रव्यादर्थान्तरभूतास्ते, अनेकरूपाणामेकद्रव्यरूपत्वायोगात् । भिन्नप्रतियोगिनिरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वाऽभिन्नकालता, यथा कुशूलतद्विशिष्टमृन्नाशघटतद्विशिष्टमृदुत्पादमृत्स्थितीनाम् । अत ऐकरूप्येण द्रव्यादनान्तरभूतत्वम्, इति सम्प्रदायः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org