SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १८४ संमतितर्कप्रकरणे, काण्ड-३, गाथा-३५ [ उत्पाद-विनाश-ध्रौव्याणां भिन्नाभिन्नकालत्वस्यार्थान्तरानर्थान्तरत्वस्य चाभिधानम् ] न चोत्पाद-विनाशयोरैकान्तिकतद्रूपताऽभ्युपगमे अनेकान्तवादव्याघातः, कथंचित् तयोस्तद्रूपताऽभ्युपगमात्, तदाह तिण्णि वि उप्पायाई अभिण्णकाला य भिण्णकाला य । अत्यंतरं अणत्थंतरं च दवियाहि णायव्वा ।।३५।। त्रयोऽप्युत्पाद-विगम-स्थितिस्वभावाः परस्परतोऽन्यकालाः यतो न पटादेरुत्पादसमय एव विनाशः तस्यानुत्पत्तिप्रसक्तेः । नाऽपि तद्विनाशसमये तस्यैवोत्पत्तिः अविनाशापत्तेः । न च तत्प्रादुर्भावसमय एव तत्स्थितिः तद्रूपेणैवावस्थितस्यानवस्थाप्रसक्तितः प्रादुर्भावाऽयोगात् । न च घटरूपमृत्स्थितिकाले तस्या विनाशः तद्रूपेणावस्थितस्य विनाशानुपपत्तेः । न च घटविनाशविशिष्टमृत्काले तस्या एवोत्पादो दृष्टः । नाऽपि तदुत्पादविशिष्टमृत्समये तस्या एव ध्वंसोऽनुत्पत्तिप्रसङ्गत एव युक्तः । ततस्त्रयाणामपि भिन्नकालत्वात् तद् द्रव्यमर्थान्तरं नानास्वभावम् न ह्यन्योन्यव्यतिरिक्तकालोत्पाद-विगम-ध्रौव्याऽव्यतिरिक्तमेकस्वरूपं द्रव्यमुपपद्यते तस्य तेभ्यो भेदप्रसक्तेः । न च तद् भिन्नमेवास्तु तत्त्रितयविकलस्य तस्य तथाऽनुपलब्धितोऽसत्त्वात् । न चैकस्य द्रव्यस्याभावादनेकान्ताभावप्रसक्तिः यतोऽभिन्नकालाष्टोत्पादादयः । नहि कुशूलविनाशघटोत्पादयोभिन्नकालता; अन्यथा विनाशात् कार्योत्पत्तिः स्यात् घटाधुतरपर्यायानुत्पत्तावपि प्राक्तनपर्यायध्वंसप्रसक्तिष्टा स्यात् । पूर्वोत्तरपर्याय-विनाशोत्पादक्रियाया निराधाराया अयोगात् तदाधारभूतद्रव्यस्थितिरपि तदाऽभ्युपगन्तव्या । न च क्रियाफलमेव क्रियाधारः तस्य प्रागसत्त्वात्; सत्त्वे वा क्रियावैफल्यात् । ततस्त्रयाणामभिन्नकालत्वात् तदव्यतिरिक्तं द्रव्यमभिन्नं न नाना । न च घटोत्पादविनाशापेक्षया भिन्नकालतयाऽर्थान्तरत्वम् कुसूल-घटविनाशोत्पादापेक्षया अभिन्नकालत्वेनानर्थान्तरत्वादेकान्त इति वक्तव्यम्, द्रव्यस्य पूर्वावस्थायां भिन्नाऽभिन्नतया प्रतीयमानस्योत्तरावस्थायामपि भिन्नाऽभिन्नतया तस्यैव प्रतीतेरनेकान्ताऽव्याहतेः । न चाऽबाधिताऽध्यक्षादिप्रतिपत्तिविषयस्य तस्य विरोधाधुद्भावनं युक्तिसंगतम् सर्वप्रमाण-प्रमेयव्यवहारविलोपप्रसङ्गात् । अत एव अर्थान्तरमनन्तरं चोत्पादादयो द्रव्यात्, तद्वा तेभ्यस्तथेति ___JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy