________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३४
१८३
तर-तमप्रत्ययार्थव्यवहाराभावप्रसक्तेः । प्रतिपादितं च कस्यचिद् रूपस्य निवृत्त्या रूपान्तरगमनं वस्तुनः प्रागिति न पुनरभिधीयते ।।३४ ।।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.७, गा.१ ___ व्ययोऽपि स्वाभाविकः प्रयोगजनितप्टोति द्विविधः । तद्द्वयातिरिक्तस्य वस्तुनोऽभावात्, पूर्वावस्थाविगमव्यतिरेकेणोत्तरावस्थोत्पत्त्यनुपपत्तेः । न हि बीजादीनामविनाशेऽङ्कुरादिकार्यप्रादुर्भावो दृष्टः । न चावगाह-गति-स्थित्याधारत्वं तदनाधारत्वस्वभावप्राक्तनावस्थाध्वंसमन्तरेण संभवतीति । तत्र समुदयजनित उभयत्रापि द्विविधः-समुदयविभागरूप एकः, यथा पटादेः कार्यस्य तन्त्वादिकारणपृथक्करणम् । अन्यष्टार्थान्तरभावगमनलक्षणः, यथा मृत्पिण्डस्य घटार्थान्तरभावः । नाशत्वं चास्याजनकत्वस्वभावाऽपरित्यागे जनकत्वाऽयोगात् । न चैवं घटविनाशे मृत्पिण्डप्रादु
र्भावप्रसक्तिः, पूर्वोत्तरावस्थयोः स्वभावतोऽसंकीर्णत्वात् वस्त्वन्तररूपे वस्त्वन्तररूपस्यापादयितुमशक्यत्वात् । ऐकत्विकनाशष्टौकत्विकोत्पादवद् वैनसिकभेद एवेति । तदुक्तम्--
“विगमस्स वि एस विही समुदयजणिअम्मि सो उ दुविअप्पो । समुदयविभागमेत्तं अत्यंतरभावगमणं वा ।।" [३/३४] । इति ।
-: द्रव्यगुपर्यायनो रास :
ढl. ४, u. २७ અણુનઈ છઈ યદ્યપિ ખંધતા. રૂપાંતર અણુ સંબંધ રે. સંયોગ-વિભાગાદિક થકી, તો પણિ એ ભેદ પ્રબંધ રે. ૧૫૯. જિન)
યદ્યપિ-અણુનઇ અણુસંબંધઇ ખંધતા છઈ, તે રૂપાંતર પરિણામ જ છછે, તો પણિ સંયોગવિભાગાદિકરૂપઈ દ્રવ્યવિનાશ-દ્વૈવિધ્યનું જ, એ ઉપલક્ષણ જાણવું. જે માટઈ-દ્રવ્યોત્પાદવિભાગઈ જ જિમ–પર્યાયોત્પાદવિભાગ, તિમ-દ્રવ્યનાશવિભાગઈ જ પર્યાયનાશ વિભાગ હોઈ. તે સમુદય વિભાગ અનઈ-અર્થાતરગમનઃ એ ૨ પ્રકાર ઠહરાઈ. પહલો–સંતુપર્યત પટનાશઃ બીજો ઘટોત્પત્તિ મૃતિંડાદિનાશઃ જાણવો.૧૫૯ उक्तं च सम्मतौ
“विगमस्स वि एस विही समुदयजणिअम्मि सो उ दुविअप्पो ।
समुदयविभागमित्तं अत्यंतरभावगमणं वा ।।" ३/३४ इति । 1. च (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org