________________
१८६
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३६
-: न्यायखण्डखाद्ये (महावीरस्तवे) :
विभाग-४, गा-३ एवं व्यवहारनयाभिमते दीर्घ ग्रहोत्पत्तिकालेऽभिन्नकालानां तदुत्पत्तिनाशस्थितीनां प्रत्येक कालत्रयस्पर्शिविलक्षणयोगेन सप्तविंशतिर्भङ्गाः, भिन्नकालानां च कालत्रययोगेन सप्तविंशतेस्त्रिधा गुणने एकाशीतिभङ्गा उत्पद्यन्ते । न चैते कल्पनामात्रनिर्मितवपुषो, निपुणं निरूपणे प्रज्ञावद्भिः सर्वेषामेवाकलनात् । तदिदमुक्तं सम्मतौ महावादिना
“तिण्णि वि उप्पायाई अभिण्णकाला य भिण्णकाला य ।
अत्यन्तरं अणत्थतरं च दवियाउ णायव्वा ।।३/३५ ।।" इति । इत्थं विवेचन एव हि वर्तमानपाकक्रियाकालेऽपि किञ्चित्पक्वं किञ्चित् पच्यते किञ्चित् पक्ष्यते इत्यादयो नियतव्यवहाराः प्रवर्त्तन्ते, प्रस्थकन्यायेन बहुभेदनैगमाश्रयणात् ततः पूर्वमपि, न चाद्यकृतिप्रागभावं चरमकृतिध्वंसं चादायानागतातीतत्वव्यवहारैकान्तोपपादनं श्रेयः ।।
__[ उक्तस्यार्थस्य प्रत्यक्षसिद्धेनोदाहरणेनोपोद्वलनम् ] अत्रैवार्थे प्रत्यक्षप्रतीतमुदाहरणमाह
जो आउंचणकालो सो चेव पसारियस्स वि ण जुत्तो ।
तेसिं पुण पडिवत्ती-विगमे कालंतरं णत्थि ।।३६।। य आकुञ्चनकालोऽङ्गुल्यादेव्यस्य स एव तत्प्रसारणस्य न युक्तो भिन्नकालतया आकुञ्चनप्रसारणयोः प्रतीतेस्तयोर्भेदः, अन्यथा तयोः स्वरूपाभावापत्तेरित्युक्तम् तत्तत्पर्यायाभिन्नस्याङ्गुल्यादिद्रव्यस्यापि तथाविधत्वात् तदपि भिन्नमभ्युपगन्तव्यम् अन्यथा तदनुपलम्भाद् अभिन्नं च तदवस्थयोस्तस्यैव प्रत्यभिज्ञायमानत्वात् । तयोः पुनरुत्पाद-विनाशयोः-प्रतिपत्तिष्टा प्रादुर्भावः, विगमष्टा विपत्तिः-प्रतिपत्ति-विगमं तत्र कालान्तरं भिन्नकालत्वमङ्गुलिद्रव्यस्य च नास्ति । पूर्वपर्यायविनाशोत्तरपर्यायोत्पत्त्यङ्गुलिद्रव्यावस्थितीनामभिन्नकालता अभिन्नरूपता च प्रतीयते एकस्यैव द्रव्यस्य तथाविवर्तात्मकस्याध्यक्षतः प्रतीतेः । ।
अथवा 'कालान्तरं नास्ति' इत्यत्र 'अ'कारप्रश्लेषाद् नञप्टोपादानात् प्रतिषेधद्वयेन प्रकृतार्थगतेः कालान्तरं कालभेद उत्पादादेव्यस्य चास्तीति कथंचिद् भेद इत्यर्थः-कथंचिद्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org