________________
१४०
संमतितर्कप्रकरणे, काण्ड-२, गाथा-४१-४२
सामान्यस्यासंभवात् संशयविरोधवैयधिकरण्याऽनवस्थोभयदोषादीनामनेकान्तवादे च प्रागेव निरस्तत्वात् ।।४० ।।
[ दृष्टान्तगृहीतव्याप्तेः सत्त्वहेतोर्दाान्तिके केवले उपनयनम् ] दृष्टान्तं प्रसाध्य दाान्तिकयोजनायाह
एवं जीवद्दव्वं अणाइणिहणमविसेसियं जम्हा ।
रायसरिसो उ केवलिपज्जाओ तस्स स विसेसो ॥४१।। एवमनन्तरोक्तदृष्टान्तवज्जीवद्रव्यमनादिनिधनमविशेषितभव्यजीवरूपं सामान्यं यतो राजत्वपर्यायसदृशः केवलित्वपर्यायस्तस्य तथाभूतजीवद्रव्यस्य विशेषस्तस्मात् तेन रूपेण. जीवद्रव्यसामान्यस्यापि कथंचिदुत्पत्तेः सामान्यमप्युत्पन्नं प्राक्तनरूपस्य विगमात् सामान्यमपि तदभिन्नं कथंचिद् विगतं पूर्वोत्तरपिण्डघटपर्यायपरित्यागोपादानप्रवृत्तैकमृद्रव्यवत् केवलरूपतया जीवरूपतया वा अनादिनिधनत्वान्नित्यं द्रव्यमभ्युपगन्तव्यम् प्रतिक्षणभाविपर्यायानुस्यूतस्य च मृद्रव्यस्याध्यक्षतोऽनुभूतेन दृष्टान्तासिद्धिस्तस्मात् केवलं कथंचित् सादि कथंचिदनादि कथंचित् सपर्यवसानं कथंचिदपर्यवसानं सत्त्वादात्मवदिति स्थितम् ।।४१ ।। [ जीव-तत्पर्यायगतं प्रामाणिकं व्यवहारमाश्रित्य द्रव्यपर्याययोरेकान्तभेदनिराकरणम् ] न द्रव्यं पर्यायेभ्यो भिन्नमेवेत्याह
जीवो अणाइनिहणो 'जीव' त्ति य णियमओ ण वत्तव्यो ।
जं पुरिसाउयजीवो देवाउयजीवियविसिट्ठो ॥४२॥ जीवोऽनादिनिधनो 'जीव' एव विशेषविकल इति नियमतो न वक्तव्यम् । यतः पुरुषायुष्कजीवो देवायुष्कजीवाद् विशिष्टो जीव एव इति त्वभेदे पुरुषजीव इत्यादिभेदो न भवेत् केवलस्य सामान्यस्य विशेषप्रत्ययाभिधानानिबन्धनत्वान्निनिमित्तस्यापि विशेषप्रत्ययाभिधानस्य संभवे सामान्यप्रत्ययाभिधानस्यापि निर्निमित्तस्यैव भावात् तन्निबन्धनसामान्याभ्युपगमोऽप्युयुक्तः स्यादिति सर्वाभावः । न च विशेषप्रत्ययस्य बाधारहितस्यापि मिथ्यात्वमितरत्रापि तत्प्रसक्तेरिति प्रतिपादनात् ।।४२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org