________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-४३
१४१
[ आत्मद्रव्यस्य स्वाभाविकैर्वेभाविकैप्टा पर्यायैः कथंचिदेकानेकत्वप्रदर्शनम् ] केवलज्ञानस्य कथंचिदात्माऽव्यतिरेकादात्मनो वा केवलज्ञानाव्यतिरेकात् कथञ्चिदेकत्वं तयोरित्याह
संखेज्जमसंखेज्जं अणंतकप्पं च केवलं णाणं ।
तह रागदोसमोहा अण्णे वि य जीवपज्जाया ।।४३।। आत्मन एकत्वात कथञ्चित तदव्यतिरिक्तं केवलमप्येकम केवलस्य वा ज्ञानदर्शनरूपतया द्विरूपत्वात् तदव्यतिरिक्त आत्माऽपि द्विरूपः असंख्येयप्रदेशात्मकत्वादात्मनः केवलमप्यसंख्येयम् अनन्तार्थविषयतया केवलस्यानन्तत्वादात्माऽप्यनन्तः । एवं रागद्वेषमोहा अन्येऽपि जीवपर्यायाश्छद्मस्थावस्थाभाविनः संख्येयाऽसंख्येयानन्तप्रकारा आलम्ब्यभेदात् तदात्मकत्वात् संसार्यात्माऽपि तद्वत् तथैव स्यात् । सोमिलब्राह्मणप्रश्नप्रतिवचने चागमे एतदर्थप्रतिपादकं च सूत्रम्-“एगे भवं दुवे भवं” इत्यादि “जाव अणेगभूयभावभविए भवं” इति प्रश्ने उत्तरं-“सोमिला ! एगे वि अहं जाव अणेगभूयभावभविए य अहं । से केणटेणं भंते ! एवं वुञ्चइ ? एगे वि अहं” इत्याद्युत्तरहेतुप्रश्ने हेतुप्रतिपादनम् । “सोमिला ! दव्वट्ठयाए एगे अहं, णाणदंसणट्ठयाए दुवे अहं” [भगवती० श० १८ उ० १० सू० ६४७] इत्यादि प्रकृतार्थसंवादि सिद्धम् | रागादीनां चैकाद्यनन्तभेदत्वमात्मपर्यायत्वात् यो ह्यात्मपर्यायः स एकाद्यनन्तभेदो यथा केवलावबोधस्तथा च रागादय इति स्थित्युत्पत्तिनिरोधात्मकत्वमर्हत्यपि सिद्धमिति यत् परेणोक्तम – “अनेकान्तात्मकत्वाभावेऽपि केवलिनि सत्त्वात यत् सत् तत् सर्वमनेकान्तात्मकमिति प्रतिपादकस्य शासनस्याव्यापकत्वात् कुसमयविशासित्वं तस्यासिद्धम्" [ ] इति तत् प्रत्युक्तं द्रष्टव्यम् ।।४३ ।।
इति तत्त्वबोधविधायिन्यां सम्मतिटीकायां द्वितीयं काण्डम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org