________________
संमतितर्कप्रकरणे, काण्ड-२, गाथा-३९-४०
१३९
. जीवोऽनादिनिधनः केवलज्ञानं तु साद्यपर्यवसितमिति स्थूरे विरुद्धधर्माध्यासलक्षणे विशेषे छायातपवदत्यन्तभेदात् कथं जीवः केवलं भवेत् ? जीवस्यैव तावत् केवलरूपता असंगता दूरतः संहननादेरिति भावः ।।३७।।
तस्माद् विरुद्धधर्माध्यासतोऽन्यो जीवो ज्ञानादिपर्यायेभ्यः अन्ये च ततो ज्ञानादिपर्याया लक्षणभेदाञ्च तयोर्भेदः । तथाहि - ज्ञान-दर्शनयोः क्षायिकः क्षायोपशमिको वा भावो लक्षणम् जीवस्य तु पारिणामिकादि वो लक्षणमिति केचित् व्याख्यातारः प्रतिपन्नाः ।।३८ ।।
[ प्रागुक्तामाशङ्कां निरसितुमुपक्रमः ] एतन्निषेधायाह
अह पुण पुव्वपयुत्तो अत्थो एगंतपक्खपडिसेहे ।।
तह वि उयाहरणमिणं ति हेउपडिजोअणं वोच्छं ।।३९।। यद्यप्ययं पूर्वमेव द्रव्यपर्याययोर्भेदाभेदैकान्तपक्षप्रतिषेधलक्षणोऽर्थः प्रयुक्तो योजितः 'उप्पाय-ट्ठिइ-भंगा' [प्र० का० गा० १२] इत्यादिना अनेकान्तव्यवस्थापनात् तथापि केवलज्ञाने अनेकान्तात्मकैकरूपप्रसाधकस्य हेतोः साध्येनानुगमप्रदर्शकप्रमाणविषयमुदाहरणमिदमुत्तरगाथया वक्ष्ये ।।३९ ।। [ अनेकान्तात्मकैकरूपत्वेन साध्येन सत्त्वस्य हेतोर्व्याप्तिं प्रसाधयितुं दृष्टान्तोपन्यासः ] तदेवाह
जह कोइ सद्विवरिसो तीसइवरिसो णराहिवो जाओ ।
उभयत्थ जायसद्दो वरिसविभागं विसेसेइ ।।४०।। यथा कष्टिात् पुरुषः षष्टिवर्षः सर्वायुष्कमाश्रित्य त्रिंशद्वर्षः सन्नराधिपो जात उभयत्र मनुष्ये राजनि च जातशब्दोऽयं प्रयुक्तो वर्षविभागमेवास्य दर्शयति । षष्टिवर्षायुष्कस्य पुरुषसामान्यस्य नराधिपपर्यायोऽयं जातः अभेदाध्यासितभेदात्मकत्वात् पर्यायस्य नराधिपपर्यायात्मकत्वेन चायं पुरुषः पुनर्जातो भेदानुषक्ताभेदात्मकत्वात् सामान्यस्य एकान्तभेदेऽभेदे वा तयोरभावप्रसङ्गान्निराश्रयस्य पर्यायप्रादुर्भावस्य तद्विकलस्य वा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org