________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-५४
“जे वयणिज्जविअप्पा संजुज्जन्तेसु होन्ति एएसु ।
सा ससमयपन्नवणा 'सिद्धन्तविराहणा अण्णा ।।” १/५३ ।। [ स्याद्वादशः अधिकारिविशेष सति निरपेक्षनयद्वयाश्रितान्यपि वांसि प्रयुञ्जानो न
दोषभागिति प्रथनम् ] परस्परनिरपेक्षयोरनयोः प्रज्ञापना तीर्थकरासादना इत्यस्यापवादमाह
पुरिसज्जायं तु पडुच जाणओ पण्णवेज्ज अण्णयरं ।
परिकम्मणाणिमित्तं दाएही सो विसेसं पि ।।५४।। पुरुषजातं प्रतिपन्नद्रव्यपर्यायान्तरस्वरूपम् श्रोतारं वा प्रतीत्य आश्रित्य ज्ञकः स्याद्वादवित् प्रज्ञापयेत् आचक्षीत अन्यतरत् पर्यायम् द्रव्यं वा-अभ्युपेतपर्यायाय द्रव्यमेव, अङ्गीकृतद्रव्याय च पर्यायमेव कथयेत् । किमित्येकमेव कथयेत् ? परिकर्मनिमित्तं बुद्धिसंस्कारार्थम् । परिकर्मितमतये दर्शयिष्यत्यसौ स्याद्वादाभिज्ञः विशेषमपि द्रव्य-पर्याययोः परस्परावि निर्भागरूपमेकांशविषयविज्ञानस्यान्यथा विपर्ययरूपताप्रसक्तिः स्यात् तदितराभावे तद्विषयस्याप्यभावात् ।।५४ ।। इति तत्त्वबोधविधायिन्यां सम्मतिटीकायां प्रथमकाण्डम् ।। [S.T.P.456]
-: अनेकान्तव्यवस्थायां :
सप्तभङ्गस्वरूपवर्णने, पत्र-६५ उत्सर्गतः स्याद्वाददेशनाया एव तीर्थकरेण विहितत्वाद्' ‘विभजवायं च वियागरिज्जा' इत्याद्यागमवचनोपलम्भात् । पुरुषविशेषमपेक्ष्यापवादतस्त्वेकनयदेशनायामपि न दोषः, तदाह सम्मतौ
पुरिसज्जायं तु पडुञ्च जाणओ पन्नवेज अन्नयरं ।
परिकम्मणाणिमित्तं, ठाएहि सो विसेसं पि ।। १/५४ ।। पुरुषजातं प्रतिपन्नद्रव्यपर्यायान्यतरस्वरूपं श्रोतारं प्रतीत्य आश्रित्य, ज्ञकः स्याद्वादविद्, प्रज्ञापयेदन्यतरदज्ञातं परिकर्मनिमित्तम, अज्ञातांशसंस्कारपाटवार्थम्, ततः परिकर्मितमतये 1-तित्थयरासायणा (संमति.) । 2-ठाएहि (अने. व्य.) । 3-दाएही (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org