________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा- ५४
स्थापयिष्यत्यसौ स्याद्वादविशेषमपि परस्पराऽविनिर्भागरूपम्, ततष्टोयमेकनयदेशनापि भावतः
स्याद्वाददेशनैवेति फलितम् ।।
तदुक्तं वादिनैव [सम्मतौ ]
“ पुरिसज्जायं तु पहुच जाणओ पण्णविज्ज अन्नयरं । परिकम्मणानिमित्तं दााहेही सो विसेसं पि" ।। १ / ५४ ।। त्ति,
नयोपदेशे
गाथा - ६
प्रमाणवाक्यमपि ह्यनेकान्तरुचिशालिनं पुरुषविशेषमधिकृत्यैव प्रयुज्यते, तदनयोर्द्वयोरपि कारणिकत्वे प्राप्ते स्वस्वकाले उत्सर्गिकत्वमेव न्यायसिद्धम्, विप्रतिसिद्धकारणविधिस्थले तथाव्युत्पत्तेः, तस्मात् ‘स्याज्ज्ञानादिलक्षणो जीवः' इत्यपि सुनयवाक्यमेव एकभङ्गरूपत्वात्, प्रमाणवाक्यता तत्राप्युत्थाप्याकाङ्क्षाक्रमेण भङ्गषट्कसंयोजनयैव ।
उक्तसूत्र एव प्रतिवचने प्राह
-: उपदेशहस्यम् :
इह विभज्जवाओ आणत्तो ण य निरुद्धपत्थारो । एयं कहमविरुद्धं, भन्नइ सोआरमहिगिच्च ।। ९९ ।।
नन्विह-‘संकिज्जया' इत्यादिसूत्रे, विभज्यवादः स्याद्वादः आज्ञप्तः सर्वत्र भाषितुमनुज्ञातः, तथा निरुद्धप्रस्तारः-स्तोकार्थविस्तरष्टा नानुज्ञातः, एतद्द्वयं कथमविरुद्धम् ? स्याद्वादप्रकाशने विस्तरावश्यंभावात् ? भण्यते - प्रत्युत्तरं विधीयते; श्रोतारं श्रोतृविशेषं अधिकृत्याविरुद्धमेतत् निखिलनयचतुरं प्रपञ्चितज्ञं प्रतिपत्तारमुद्दिश्य विस्तरेण स्याद्वादप्रतिपादनात्, एकतरनयप्रियं च तमुद्दिश्य स्याद्वादप्रतिपत्तियोग्यतामाधातुं स्तोकप्रतिपादनात्तदानीमपि स्याद्वादप्रतिपादनयोग्यताया अनपायात्, तथा चाह सम्मतिकार:
पुरिसज्जायं तु पडुच जाणओ पन्नवेज्ज अण्णयरं । परिकम्मणाणिमित्तं दाहेही सो विसेसंपि ।।१ / ५४ ।।
Jain Education International 2010_02
९५
एवं श्रोतृभेदेन स्याद्वादप्रतिपादने भजनापि भवेत् तत्परिज्ञानं विना तु सम्यक्त्वमपि न व्यवतिष्ठत इति ।
"
For Private & Personal Use Only
www.jainelibrary.org