________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-५३
९३
“नामूर्तं मूर्त्ततामेति मूर्तं नायात्यमूर्त्तताम् । .
द्रव्यं कालत्रयेऽपीत्थं च्यवते नात्मरूपतः" ।। [ ] इति । तीर्थकृन्मतमेवैतन्नयवादनिरपेक्षमिति कैष्टिात् प्रतिपादयद्भिस्तस्याधिक्षेपप्रदानात् ।।५३ । |S.T.P.456]
-: अनेकान्तव्यवस्थायां :
सप्तभङ्गस्वरूपवर्णने, पत्र-१५ एते च नयाः प्रत्यक्षादिस्थलेऽजहद्वृत्त्यैकोपयोगरूपतया सापेक्षाः प्रमाणतामास्कन्दन्ति, शब्दस्थले च साकाङ्क्षखण्डवाक्यजसप्तभङ्ग्यात्मकमहावाक्यरूपाः प्रमाणम्, न निरपेक्षाः, तदुक्तं सम्मतौ
जे वयणिज्जवियप्पा, संजुजंतेसु होति एएसु ।
सा ससमयपण्णवणा, तित्थराऽऽसायणा अण्णा ।। १/५३ ।। ये वचनीयस्याभिधेयस्य विकल्पास्तत्प्रतिपादका अभिधानभेदाः, संयुज्यमानयोरन्योन्यसम्बद्धयोर्भवन्ति, अनयोर्द्रव्यास्तिकपर्यायास्तिकनयवाक्ययोः, ते च ‘कथञ्चिन्नित्य आत्मा' 'कथञ्चिदनित्य' इत्येवमादयः । सैषा, स्वसमयस्य तत्त्वार्थस्य, प्रज्ञापना निदर्शना, अन्या निरपेक्षनयप्ररूपणा तीर्थकरस्याशातना अधिक्षेपः, तत्प्ररूपणोत्तीर्णत्वात् ।
- नयोपदेश: :कुतस्तर्हि वैशेषिकदर्शनमुत्पन्नं कथं वा तन्न सम्यगित्याकाङ्क्षायामाह
द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना ।
__ अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ।। ११८ ।। नयामृत०-द्वाभ्यामिति । द्वाभ्यां सामान्य-विशेषग्राहिभ्यां सङ्ग्रह-व्यवहाराभ्यां नयाभ्याम्, उन्नीतं पृथग् व्यवस्थापितमपि, कणाशिना कणादमुनिना, शास्त्रम्, अन्योऽन्यनिरपेक्षत्वात् परस्परद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्वप्रयोजकम्, किन्तु यथास्थाने तद्विनियोगः स च स्वप्रयुक्तभङ्गविविक्तद्रव्य-पर्यायोभयावगाहित्वात्, स्वमताग्रहात् स्वकल्पनाभिनिवेशात्, मिथ्यात्वम्, नहि नयद्वयेतरयावद्भङ्गानां स्याद्वादलाञ्छितानां परस्परसाकाङ्क्षाणां तात्पर्यविषयतया सम्पद्यते, एकतरस्याप्यतात्पर्य सिद्धान्तविराधनया अपरिहारात्, तदाह [सम्मतौ] -
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org