________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-५२-५३
प्ररूपणा-नैवात्मा स्थाय्यस्ति किन्तु भावमात्रं विज्ञानमात्रमिति न करोति न च कष्टिाद् वेदयते उत्पत्तिक्षणानन्तरध्वंसिनः कर्तृत्वाऽनुभवितृत्वायोगात् ।।५१ । । [S.T.P.455] तथेयमपि तयोस्तथाभूतयोः प्ररूपणेत्याह
दवट्ठियस्स जो चेव कुणइ सो चेव वेयए णियमा ।
अण्णो करेइ अण्णो परिभुंजइ पज्जवणयस्स ।।५२।। य एव करोति स एव वेदयते नित्यत्वात् द्रव्यास्तिकस्यैतन्मतम् । अन्यः करोत्यन्यष्टा भुङ्क्ते क्षणिकत्वात् पर्यायनयस्य । ननु पूर्वगाथोक्तमेव पुनरभिदधता पिष्टपेषणमाचार्येण कृतं भवेत्, न; उत्पत्तिसमनन्तरध्वस्तेन करणम् भोगो वा सम्भवीति प्राक् प्रतिपादितम् इह तु उत्पत्तिक्षण एव कर्त्ता तदनन्तरक्षणष्टा भोक्तेति न पुनरुक्तता । उक्तं च परैः-“भूतिर्येषां क्रिया सैव कारकं सैव वोच्यते” [ ] इति ।।५२ ।। [S.L.P.455] [ सापेक्षनयद्वयाश्रितानामेव कथंचित्पदाङ्कितानां वचसां स्वसमयप्ररूपणात्वं
नान्येषामित्यभिधानम् ] इयमसंयुक्तयोरनयोः स्वसमयप्ररूपणा न भवति या तु स्वसमयप्ररूपणा तामाह
जे वयणिज्जवियप्पा संजुज्जंतेसु होन्ति एएसु ।
सा ससमयपण्णवणा 'तित्थयराऽऽसायणा अण्णा ।।५३।। ये वचनीयस्याभिधेयस्य विकल्पास्तत्प्रतिपादका अभिधानभेदाः संयुज्यमानयोरन्योन्यसम्बद्धयोर्भवन्त्यनयोर्द्रव्यास्तिक-पर्यायास्तिकवाक्यनययोः । ते च–'कथञ्चिन्नित्य आत्मा कथञ्चिदमूर्तः' इत्येवमादयः । सा एषा स्वसमयस्येति तदर्थस्य प्रज्ञापना निदर्शना अन्या तु निरपेक्षयोरनयोरेव नययोर्या प्ररूपणा सा तीर्थकरस्यासादनाऽधिक्षेपः । “एगमेगेणं जीवस्स एएसे अणंतेहिं णाणावरणिज्जपोग्गलेहिं आवेढियपवेढिए” [ ] इति तीर्थकृद्वचने प्रमाणोपपन्ने सत्यपि
1-सिद्धन्तविराहणा (नयो.) |
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org