________________
संमतितर्कप्रकरणे, काण्ड-१, गाथा-५१
शेषपदार्थस्वरूपग्राहकत्वाऽयोगात् । एवं च स्याद्वादोक्तिरेव युक्ता न तु परस्परनिरपेक्षनयोक्तिर्विना । श्रोतृधीपरिकर्मणानिमित्तम्, वस्तुनोऽनेकान्तात्मकत्वात् । तदाह [सम्मतौ] -
दव्वट्ठियस्स आया बंधइ कम्मं फलं च वेएइ । बिइयस्स भावमेत्तं ण कुणइ ण य कोइ वेएइ ।। [१/५१] दव्वट्ठियस्स जो चेव कुणइ सो चेव वेयए नियमा । अण्णो करेइ अण्णो परिभुंजइ पज्जवणयस्स ।। [१/५२] जे वयणिज्जविअप्पा संजुजंतेसु होति एएसु ।। सा ससमयपण्णवणा तित्थयरासायणा अण्णा ।। [१/५३] पुरिसज्जायं तु पडुच जाणओ पण्णविज अण्णयरं ।
परिकम्मणानिमित्तं दाएही सो विसेसंपि ।। [१/५४] तस्माद् देहात्मनोऽन्योन्यव्याप्तिजैव देहस्पर्शादिसंवित्तिरिति सिद्धम् । इति हेतोः, बन्धादि सङ्गतं युक्तम्, कार्यान्यथानुपपत्तेः ।। ४२ ।। [ निरपेक्षयोर्द्रव्यास्तिक-पर्यायास्तिकयोर्मतेन यथा यथा कर्मबन्धस्तत्फलप्ररूपणा
भवति तथोपवर्णनम् ] अस्य च मिथ्यात्वादिपरिणतिवशोपात्तपुदगलाङ्गाङ्गिभावलक्षणो बन्धः तद्वशोपनतसुखदुःखाद्यनुभवस्वरूपप्टा भोगः अनेकान्तात्मकत्वे सत्युपपद्यते अन्यथा तयोरयोग इति प्रतिपादनार्थमाह-दव्वट्ठियस्स इत्यादि ।
अथवा परस्परसापेक्षद्रव्यास्तिक-पर्यायास्तिकयोः प्ररूपणा प्रदर्शितन्यायेन सम्भविनी, निरपेक्षयोः कथं सा ? इत्याह -
दव्वट्ठियस्स आया बंधइ कम्मं फलं च वेएइ ।
बीयस्स भावमेत्तं ण कुणइ ण य कोइ वेएइ ।।५१।। द्रव्यास्तिकस्येयं प्ररूपणा-आत्मा एकः स्थायी कर्म ज्ञानादिविबन्धकं बनाति स्वीकरोति तस्य कर्मणः फलं च कार्यरूपं वेदयते भुङ्क्ते आत्मैव । द्वितीयस्य तु पर्यायार्थिकस्येयं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org